SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ततः स मुष्टिभिर्वज-कल्पैस्तं मूर्ध्नि जन्निवान् । गंभीरवेदिनं यंता, शृणिपातैर्यथा दृढः॥२०९॥ अरंतुदैः प्रहारैस्तैः, क्षणं मूच्छितमानसः। भीमाधिमूर्द्ध चिक्षेप, कोपात् कापालिका क्षुरीम् ॥२१०॥ तदात्वोदीत(चोदित)धी(मः, सखगोडप्यविशद् द्वतम् । तत्कणे कूपदेशीये, गुहायां हरिणारिवत् ॥२११॥ उत्कीर्णवांश्च कर्णस्य, मध्यं तीक्ष्णमुखै खैः । मर्माविधं | व्यथां कुर्वन् ,कर्णखजूरकीटवत्॥२१॥मयाऽहो पृथुकर्णत्वं, स्वस्यैवानर्थकृत कृतम्।यदत्रैष खनत्यंत-बिलमध्यस्थिताखुवत् ॥२१॥ इति ध्यायन व्यथाऽऽकीर्णः, कर्णादाकृष्य तं बलात् । उच्छाल्य कंदुकमिव, व्योनि चिक्षेप दुर्बती॥२१४॥ युग्मम्॥ दरमूर्ख नभो गत्वा, यंत्रोच्छलितगोलवत् । यावत् पतति मूोलः, क्षमापालसुतः क्षितौ ॥२१५॥ तावत् पतत्पतंगाभ, तं पतंत नभस्तलात् । निरीक्ष्य यक्षिणी काचिद् , दधार करसंपुटे ॥२१६॥ नीत्वा च सत्वरं स्वस्य, स्थानमास्थानवच् छियाम् । शीतोपचार रुचिरै-स्तस्य मूर्छामतुच्छयत् ॥ २१७ ॥ कुमारोऽथ समालोक्य, वेश्म तत् सुरवेश्मवत् । देवतां है तां च दिव्याङ्गी, जातोऽद्भुतमयो भृशम्॥२१८॥स्वरेण मधुरेणाथ, सुधाऽऽसारैकसारणिम् । कर्णयोः पूर्णयंतीव, यक्षिणी भीममाख्यत ॥ २१९ ॥ देव ! विंध्यो गिरिरयं, कृताधोल्लेखशृंगभृत् । देवानामपि यः सेव्यो, मेरुवत् कामनीयकात् २२०॥ अत्रेदं मंदिरं लक्ष्मि (क्ष्मी)-सुंदरं वैक्रियं मम । रिरंसार्थ वसंतीह, कमलाख्याऽस्मि यक्षिणी ॥२२१ ॥ अधुना टू गगने यांत्या, मया त्वं निपतन्नधः। निभाल्य पाणिपझेन, धृतो रत्नवदुत्तमः ॥ २२२ ॥ त्वल्लावण्यमिवापातुं, देवीभि १ चिरकालेन यो वेत्ति, शिक्षा परिचितामपि। गंभीरवेदी विज्ञेयः, स गजो गजवेदिभिः ।।तथा त्वग्मेदाच्छोणितस्रावाद्, मांसस्य कथनादपि [ छेदनादपि ] आत्मानं यो न जानाति, स स्याद् गंभीरवेदिता ॥ इत्युक्तलक्षणहस्तिनम् . २ हस्तिपः. ३ कन्दुकवत्. ४ सूर्यसदृशम्. ५ अदूरयत्.६ विकुर्वितम्. ७ रमणेच्छाये. BASEARCRACCAKA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy