SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ रिरंसां हिंस्रतामिव । दयालुतामिव धत्स्व, शीललीलां सुरोत्तमे । ॥ २३७ ॥ सम्यक्त्वं च श्रय प्रेयैः - श्रेयः संवननौषधम् यंत्राद्धर्मसाम्राज्य - लक्ष्मीलीलायतेऽन्वहम् ॥ २३८ ॥ इति तद्वाक्सुधासेकात्, स्वांतशांतस्मरज्वरा । आलपन्मालतीपुत्रं, यक्षिणी शीलरक्षिणी ॥ २३९ ॥ यौवनेऽप्यचलं श्रीलं, यतिवद् बिभ्रता त्वया । नवरं पातकात् स्वास्मा, ममात्माऽपि च रक्षितः ॥ २४० ॥ गुरुस्त्वमेव मे गौर - गुण ! सम्यक्प्रबोधनात् । उक्त्वेत्यलंकारमिव, सम्यक्त्वं सा ततोऽग्रहीत् ॥ २४१ ॥ निशीथे च निशम्याथ, कुतोऽपि मधुरध्वनिम् । किमीयँ इति सोऽप्राक्षीत्, कमलाममलाशयः ॥ २४२ ॥ सा स्माह साहसनिधे !, ज्येष्ठकल्पमधिष्ठिताः । साधवोऽत्रासते तेषां स्वाध्यायध्वनिरेषकः ॥ २४३ ॥ हृष्टोऽभाषिष्ट तां भीमो, धर्मज्ञा त्वमपि ध्रुवम् । भवरोगागदंकारा, यदुपने महर्षयः ॥ २४४ ॥ पुण्यैकाश्रयवत् साधू - पाश्रयं मे प्रदर्शय । यथा निशीथिनीं शेषां, धर्मध्यानमयीं नये ॥ २४५ ॥ निशायां न विशत्यंत - र्वनिता देवताऽप्यतः । दवीयस्येव सा द्वाराद्, दर्शयामास तस्य तम् ॥ २४६ ॥ निशीथेऽपि शुभध्यानो - त्सर्गाद्यैरप्रमद्वरान् । दृष्ट्वा महर्षीन् हर्षाश्रु - मिश्रो भीमः परामृशत् ॥ २४७ ॥ उपस्कृत्य स्वांतं चिरमुचितमैत्र्यादिघटनाद्, विशुद्धामध्यात्मोपनिषेदमधिष्ठाय तदनु । निलीनाः स्वच्छंदस्फुरदुरुचिदानंदजलधौ, परब्रह्मण्येते विदधति निजं जन्म सफलम् ॥ २४८ ॥ ( शिखरिणी) । वयं तु विषय - १ रंतु मिच्छां-भोगवाञ्छाम्. २ अतिशय प्रिय मोक्षवशीकरणौषधम् ३ सम्यक्त्वे. ४ क्रीडति, ५ भीमकुमारम्. ६ विशुद्धगुण ! ७ कस्य अयमिति किमीयः ८ चतुर्मासीम्. ९ वैद्याः १० यस्याः समीपाश्रये. ११ खच्छं कृत्वा १२ रहस्यम् - अध्यात्मशास्त्रम् १३ साधवः १४ भवभटभयं भक्त्वा, संक्त्वा ( संमील्य ) गुरून् विदितात्मनस्तपसि परमै रंक्त्वा, मंक्त्वा समाधिसुधाम्बुधौ। जिन ! जिन ! जिनेयास्ये जल्पन्, मनस्यपि तं स्मरन्, नयति सुकृती कश्चित्कालं पचेलिमपाटवः ॥ २४९ ॥ प्र
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy