________________
कुमारपालच.
॥१५४॥
यूकया ॥ ५९॥ ततः स पत्तनं नीत-स्तथैव पृथिवीभुजा । ज्ञाततदुष्टचेष्टेन, बभाषे परुषाक्षरम् ॥५९१॥ विज्ञायापि मया विष्वग्, निषिद्धं प्राणिनां वधम् । रेरे निःशूक! यूकेयं, हन्यते स्म त्वया कुतः ॥५९२॥सोऽवदत् स्वामिवन्मू
-मध्ये मार्ग विधाय मे । कौणपीव पिबत्येषा, रक्कं व्यापादिता ततः॥५९३॥जगौ स्वामीयमेवास्याः,स्थितिस्तां तन्वती यदि । घात्येयं तर्हि सर्वेऽपि, घात्याः स्वस्वस्थितिस्थिताः॥५९४॥ पशुप्रायश्च कस्त्वं रे, नृपचक्रधरेष्वपि । एवं दुश्चेष्टते यूका, स्ववृत्तिः खलु दुस्त्यजा ॥ ५९५ ॥ पीडामात्रं वितन्वाना, त्वयेयं निहता यदि । प्राणानपि हरन्नस्याः, कथं त्वं नैव हन्यसे । ॥५९६ ॥ जानन् स्वस्येव सर्वस्य, सुखदुःखं, हिताहितम् । प्राणप्रमापणाद् दुःखं, परस्य कुरुषे कथम् ? ॥५९७॥ कल्मषाद् यदि नाभैषी-यूकां मनन् विनिघृण ! । मेत्तस्त्वं किं न मत्तोऽपि, हिंसकैकविनाशकात् ॥ ५९८ ॥राज्ञामाज्ञाबिलोपो हि, विना शस्त्रं वधः स्मृतः। तत्कुर्वाणोऽधुनाऽभूस्त्वं, हंत हंतव्यमध्यगः ॥ ५९९ ॥ परं यूकाकृतेऽप्येवं, कुप्यंस्त्वां घातये कथम् ? । तेन सर्वस्वदंडेन, त्वां निगृह्णामि दुष्टवत् ॥६००॥ ततस्त्वं गृहसर्वस्वं, व्ययीकृत्यात्र पत्तने । कारयस्व रयात् तस्याः, श्रेयसे चैत्यमुत्तमम् ॥६०१॥ यथैतवृत्तमाकर्ण्य, यूकाचैत्यं विलोक्य च । निर्दयोऽपि न कोऽप्यन्यो, हन्यात् त्वद्वद् वपुष्मतः॥ ६०२॥ इत्यादिष्टो नरेंद्रेण, स व्ययित्वा धनं धनम् । पत्तनेऽकारयद् यूका|विहारं हारवद् भुवः॥ ६०३ ॥ एवं चरत्सु चौलुक्य-चरेषु काऽपि जंतवः । न निश्यपि न गेहेऽपि, नै केनापि निपा तिताः॥६०४॥ ततो यथा जिनेंद्रस्य, तीर्थे ववृधिरे नराः। तथा चौलुक्यराज्येऽपि, जलस्थलखचारिणः ॥६०५॥
१ राक्षसीव, २ मुखं दुःखं, प्र, ३ प्राणनाशनात् ४ पापात् . ५ महोन्मत्तः ६ मत्सकाशात् देहिनो-जीवामित्यर्थः, “ दिवसेऽपि बहिरपि.
॥१५४॥