SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ A यम्ममा व्याधशौनिककैवर्त-कल्पपालादिपट्टकान् । पाटयित्वा स तेभ्योऽपि, करुणां प्रत्यपालयत् ॥ ५७८॥ यथाऽऽक्षिकेषु सत्या वाग, यथा दुष्टेषु शिष्टता । तथाऽऽसीच्छौनिकायेषु, विस्मयाय दया तदा ॥५७९॥ वात्सकाssजकगव्याध-मपि नागलितं जलम् । पाययामासिवान् कोऽपि, चौलुक्यनृपशासनात् ॥५८०॥ ततः स्वदेशे स्ववशमहीशविषयेष्वपि । प्रजिघाय निजानातान , मार वारयितुं नृपः॥५८१॥ सुराष्ट्रपाटरीस्तंभ-तीर्थवार्धितटादिषु । लाटमालवकामीर-मेदपाटमरुष्वपि ॥ ५८२॥ सपादलक्षदेशेऽपि, शक्तिभक्तिधनादिभिः। ते मारिं वारयामासुः, पापयाधिमिवाभितः॥ ५८३ ॥ युग्मम् ॥ घोदीन्यपि हिंसायाः, कारणानीति भूपतिः । पटहोद्घोषणापूर्व, निषिध्य निखिले जने ॥५८४ ॥ मृन्मयानि नुरू पाणि, मषीश्याममुखानि च । आरोप्य तानि सप्तापि, व्यसनान्यघिरासभम् ॥५८५ ॥ भ्रमयित्वा प्रतिपथ, हन्यमानानि यष्टिमिः। पत्तनान्निजदेशाच्च, सर्वथा निरवासयत् ॥ ५८६ ॥ त्रिभिर्विशेषकम् ॥ ततश्चौलुक्यभूमीभुग, विष्वक् प्रैषीनिजांश्चरान् । जंतून हिनस्ति किं कोऽपि, न वेत्थमवलोकितुम् ॥ ५८७ ॥ बंधम्यमाणास्तेऽजन, प्रेक्षमाणाश्च हिंसकान् । सपादलक्षदेशीयं, कंचिद्ग्राममुपागमन् ॥५८८॥ माहेश्वरो वणिक् तत्र, वेणीविवरणे तदा । तच्छीर्षात् प्रियया दत्तां, यूकामेकां न्यपातयत् ॥ ५८९ ॥ लक्षयित्वाऽतिदाक्ष्येण, दूरस्थैरपि तच्चरैः । दः स चौरवत् सार्ध, तया व्यापन्न १ व्याधो-वने मृगहिंसकः शौनिको-मांसविक्रेता(कसाइ) कैवर्तो-धीवरः( माछी) कल्पपालो-मदिराविक्रेता (कलाल), २ यूतकर्तृषु ३ वत्सानां ता(वाछरडांनो) समूहः वात्सकम् एवम् आजकं गव्यं च. ४ व्याप्ति०, प्र. ५ यूतादीनपि, प्र, प्रेक्ष्य०, प्र. ७ तन्नामा महेश्वरभक्को वा, ८ व्य.,प्र, CCORRECASSACROS
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy