________________
R
HAUSSURROSTALO45 *****
दुद्घाटनं खलु ॥ ४९६ ॥ यः स्वस्येव परस्यापि, स्थगयत्येव दूषणम् । विश्वं विश्व वशीकर्तु, स एवात्र प्रगल्भते॥४९७॥ किंच दौःस्थ्यं न कस्यासी-न्महतोऽपि स्वकर्मणा । अवस्था मामिकां यत्त्वं, खलवंदापसे मुहुः ॥४९८॥ संपदं विपदं चापि, महानामोति नेतरः । हानि वृद्धिं च लभते, चंद्रमा नोडुमंडलः ॥ ४९९ ॥ एकांते कांतमन्यद्वा, ब्रूयास्तत्त्वं यह च्छया । सदोमध्ये तु सन्मुद्रा-माद्रियेथा? महात्मवत् ॥५०॥ क्षमापतेरिमा शिक्षा, दुःशैक्ष इव सद्गुरोः। राज्यदानातिहप्तात्मा, कृष्णदेवोऽग्रही (हि)टन ॥५०१॥ अथानुचिततद्धास्य-क्रुद्धश्चौलुक्यराड् जगौ । अस्माद् अहिलवस्कस्मा-निषिद्धोऽपि न तिष्ठसि ॥५०२॥ यतो हास्यात्प्रवर्धिष्णुः, क्रोधो वातावाग्निवत् । दुमानिव नयत्यंत, बांध
वानपि तत्क्षणम् ॥ ५०३ ॥ तस्मात्कामयसे कामं, यदि जीवितमात्मनः। तर्हि हास्यानिवर्तस्व, कुकृत्यादिव भावुकः। F॥५०४ ॥ कृष्णदेवस्ततोऽवादी-नरदेवं वमन्निव । क्रूराक्षरवचोव्याजात्, कोपवहिकणान् बहिः ॥५०५॥ मयैव |रंकतां भक्त्वा, त्वमैश्वर्ये न्यवेश्यथाः । इदानीं तेनै मत्तः सन् , मामेवमवमन्यसे ॥ ५०६ ॥ अभ्रमीयंत्र भिक्षार्थ, भिक्षु|वत्प्रतिमंदिरम् । व्यस्मार्षीः किमु तद्दौस्थ्य-मरे मदुपकारवत् ॥५०७॥ परं गुरुकृतोऽपि स्वं, नीचः सात्म्यं न मुंचति ।
उच्चासनस्थितोऽपि स्या-न्न काको हंसचेष्टितः॥५०८ ॥ दुर्जनश्च कृशानुश्च, द्वाविमौ सदृशौ मतौ। नयेते यत्क्षयं सद्यः,
स्वस्याप्युल्लासकारणम् ॥ ५०९॥ विब्रुवाणेऽपि तत्रेत्थं, साहित्थो महीपतिः। नादीदृशन्निजं मध्यं, क्षुभितोऽपि पयोदधिवत् ॥ ५१०॥ विब्रुवन् खलवन्नैष, स्थाता शिक्षा विना ध्रुवम् । विचार्येति निजे चित्ते, व्यनाक्षीत्तं तदा नृपः ॥५११॥
१ समप्रम्, २ जगत्. ३ भव्यजनोऽथवा भगिनीपतिः. ४ ऐश्वर्येण. ५ खभावम्. ६ भवहित्यया-हृद्तभावेन सहितः,
ECEMCHORRORS-
त्यो महीपथ, दाविमौ सदस्य, नीचः सासमक्षार्थ, भिक्षु-
X----
"