________________
सर्ग.५
पालच.
॥९८॥
ISROSAMSUNGARSAMSROSE
इतस्तस्मिन् महाशाल-पुरे राजा धनंजयः। पूर्वेधुर्गाढरोगा”, दैवादानंच पंचताम् ॥ ३९५ ॥ सुतस्तस्य न कोऽप्यासीदिप्ति संमंत्र्य मंत्रिभिः। संध्यायामध्यवास्यंत, पंचदिव्यानि भक्तितः ॥ ३९६ ॥ प्रातः स्फूर्जत्सु तुर्येषु, राजकीयैर्जनैः
सह । स्वयं प्रतस्थिरे तानि, राज्याधिष्ठायिवैभवात् ॥ ३९७ ॥ तेषु भ्रमत्सु सर्वत्र, पुरे पौराः परःशताः। पुरः पुरः स्फुरx
दूपा, राज्यार्थमवतस्थिरे ॥ ३९८ ॥ वासार्थ वसतिश्चतुष्करमिता, वेषद्वयं प्रावृतो, भुक्त्यै धान्यघृतोदकादि च कियत् ,
किंचिद् व्ययार्थ धनम् । एकैकं शयनासनप्रियतमा-दासीगवाश्वादिकं, भोगोऽयं नृपरंकयोस्तदपि ही राज्ये स्पृहावान् 8/जनः ॥ ३९९ ॥(शार्दूल०)परितोऽपि पुरं भ्रान्त्वा, पौरान सर्वानपास्य च । प्रक्रीडितुमिव स्वैरं, पुरात् तान्यगमन् बहिः॥ | ॥४००॥ आहूतानीव केनापि, गत्वा तानि द्रुतं ततः।वने तस्मिन्नृपामात्य-पुत्रोपांतं प्रपेदिरे॥४०॥स्वयंवरेव राज्यश्रीरापन्नेति मुदं वहन् । सुप्तं जागरयामास, सुमित्रो राजनंदनम् ॥ ४०२ ॥ तावत् कराग्रभंगार-पयोभिरभिषिच्य तम् ।। गर्जन् गजेश्वरो वीरां-गदं पृष्ठे न्यवीविशत् ॥ ४०३॥ हेषते स्म हयो हर्षाद, राज्यश्रीदेवतेन च । तस्य मूर्ध्नि धृतं | छत्रमवीज्येतां च चामरे ॥४०४॥ वीरांगदावलोकेन, लोकानां प्रीतयोऽन्तरी । अमांत्य इव रोमांच-व्याजतो निर्य-IN युबहिः ॥ ४०५॥ तदाऽध्यासीत् सुमित्रोऽन्त-भैजे राज्यं सुहन्मम । इतोऽयं मां पुरं नीत्वा, नियोगे क्वापियोक्ष्यते ॥ ॥४०६॥ स्वार्थप्रजार्थराजार्थ-सार्थसाधनचिंतया । नियोगः पारवश्याय, तंदवश्यं च दुःखदम् ॥ ४०७॥ योगादपि नियोगोऽयं, दुःसाधः सुधियामपि । योगे साध्यो यदात्मैव, नियोगे त्वखिलं जगत् ॥४०८ ॥ मणिश्चिंतामणिरिव, स्वार्थ
१ प्राप जगाम वा. २ वाद्यमानेपु. * तौ, प्र. ३ देवता एव दैवतम्. ४ मध्ये. ५ आशिवाय. प्राप-इत्यर्थः. ६ अधिकारे. ७ तादर्थे चतुर्थी. ८ पारवश्यम्.
CRICA%AAG
॥९८