SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ माहात्म्येन सहांगजस्य नृपतेस्तारुण्यमासेदुषः ॥२५०॥(शार्दूल०) पाणिमात्रममुना विभूष्यते,स्वर्णकंकणमिति त्यजन् कैरे। श्रीकरं स्वपरयोर्नुपांगजः, स द्विर्धाप्यधित दानकंकणम्॥२५॥ (रथोद्धता)वीरांगदः समित्रोऽपि, सवसंत इव स्मरः। हृद्यमुद्यानमन्येद्युः, श्रयति स्म रिरंसया ॥२५२॥ तस्मिन् स्मेरसुमस्तोमे, क्रीडित्वा स्वेच्छया चिरम् । स्नात्वा च सारसे नीरे, ववले स्वगृहं प्रति ॥ २५३ ॥ मृत्युक्रांत इव भ्रांत-स्वांतः कोऽपि पुमान् पथि । ब्रुवन् मां रक्ष रक्षेति, कुमारं शरणं श्रितः॥२५४॥ मा भैषीरिति वाक्येना-श्वासयंस्तं नृपात्मजः । दृष्टवान् करवालोग्रा-नग्रतो राजसेवकान् ॥२५५॥ कोऽयं पुमान् ? किमागोऽस्य ?, पृष्ठे यूयं किमागताः । इति पृष्टाः कुमारेण, ते कृप्ताऽञ्जलयो जगुः ॥२५६॥ स्वामिन्नयं परास्कंदी, पुरस्कंदी तवामितः। जहे धनानि लोकानां, जीवितव्यानि मृत्युवत् ॥ २५७ ॥ प्रविशन्निष्पतश्चापि, स्वेच्छयाऽयं पुरांतरे । आत्मेव लोकै लोकि, विलोकनपरैरपि ॥ २५८ ॥ हृत्वाऽद्य कोशं मापस्य, नश्यन् दस्युरयं रयात् । दः स्थित्वाऽभितोऽस्माभि-जन्मीव निजकर्मभिः ॥ २५९ ॥ शूरांगदनिदेशेन, हंतुं प्रस्थापितस्ततः । नंष्ट्वा शशकवत् सोऽयं, चक्रे त्वां शरणं गुणिन् ! ॥ २६० ॥ तदयं दीयतां स्वामि-नये दृष्टिनिधीयताम् । एनं स्तेनं यथा हत्वा, दसतां शांतिं वितन्महे ॥ २६१॥ श्रुत्वेति तानथावादीद्, दयालुपनंदनः। शीर्षच्छेद्यो यदप्येष, मया देयस्तथापि न ॥ १ प्राप्तवतः. २ स्वर्णकंकणेन. ३ हस्ते. ४ पुण्येन लक्ष्म्या च-खस्य पुण्येन परस्य लक्ष्म्या चेत्यर्थः, ५ उद्याने. ६ सरस इदं सारसं तस्मिन्-सरोवरसंबंधिनीत्यर्थः 8. परानास्कन्दतीति-चौरः, 6 तव नगरचौरः, ९ विलोकितपरैः.प्र. १० पश्चाद्वधस्थानाद्वा. ११ नीती. KAAS
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy