SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सर्ग.८ कुमार-1 पालच० ॥१६५॥ तसिद्धान्त-सारः सूरिमचर्चिका। वक्तुं प्रचक्रमे स्फार-सुधोद्गारिमया गिरा॥१४६॥ चतुर्गतिभवोद्दाम-वनभञ्जनकुञ्जरैः। दानशीलतपोभावैः, स धर्मः स्याच्चतुर्विधः॥ १४७ ॥ तत्र त्रिधा भवेद् दानं, निदानं स्वःशिवश्रियाम् । अभयज्ञानधर्मोप-प्ष्टंभरूपप्रभेदतः ॥१४८॥ प्राणिनां मृत्युभीताना-मभयार्पणमञ्जसा । पुण्यश्रीकोशसर्वस्वं, तदाद्यं प्रणिगद्यते ॥ १४९॥ सुमेरोन परं स्थेष्ठं, गगनान्न परं पृथु । वार्द्धन परमस्ताघ-मभयान्न परं हितम् ॥१५०॥ साधूनामागमग्रन्थ-सूत्राध्यापनादिभिः। प्रबोधवर्द्धनं यत् तत् , ज्ञानदानं विदुर्बुधाः॥१५१॥ येन प्रोल्लासितं ज्ञान-मज्ञानध्वान्तभास्करम् (रः)। तृतीयं लोचनं तेन, दत्तं विश्वार्थगोचरम् ॥ १५२ ॥ यदर्पणेन श्रामण्यं, निर्वहत्यनगारिणाम् । धर्मोपष्टंभनात् तत् स्यात् , तृतीयं दानमुत्तमम् ॥१५३॥ निराशंसः प्रसन्नास्य-चंचद्रोमाञ्चभाक् सुधीपात्राय शुद्धमन्नाद्यं, दद्यात् पुण्याभिवृद्धये ॥१५४॥ ज्ञानं क्रियान्वितं यस्मिन् , माणिक्योभासिहेमवत्।दौर्गत्यपातपातृत्वात् , तत् पात्रं | विदुरा विदुः॥ १५५ ॥ दयादानं पुनर्देयं, पात्रापात्राविवेचनात् । दुःस्थोपकारकत्वेन, तदप्युद्दामपुण्यदम् ॥ १५६ ॥ तस्य दानस्य माहात्म्यं, केऽभिष्टोतुमधीशताम्(श्वराः)। पाणिं प्रसारयत्युच्चै-जगदीशोऽपि यत्कृते॥१५७॥वपुरनुपमरूपं भाग्यसौभाग्ययोगः, समभिलषितसिद्धिवैभवं विश्वभोग्यम् । सुखमनिशमुदारं स्वर्गनिःश्रेयसाप्तिः, फलमविकलमेतद्, |दानकल्पद्रुमस्य ॥ १५८ ॥ (मालिनी) सर्वतो देशतो वाऽपि, यद् ब्रह्मव्रतसेवनम् । तच्छीलं कीय॑ते कीर्तेः, स्थूलं १ सूरिश्रेष्ठः-प्रशस्तसूरिः. 'भतलिकादयो नियतलिंगा नतु विशिष्यविघ्नाः' इति सिद्धान्तकौमुद्याम् 'प्रशंसावचनैश्च' इति संत्रे. २ सुधाया उद्वारोऽस्यामस्ति सा सुधोद्गारिमा तया. ३ पाता-रक्षकः. ४ पात्रापात्राविचारात्. ५ उत्तमोत्तमयोगः,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy