________________
*-%
कुमारपालच०
सर्ग.५
॥९१॥
दृष्टवान् गुर्जरेश्वरः॥२१॥पडिः कुलकम् ॥ तद्दर्शनेंदुनोद्वेल-प्रमोदक्षीरनीरधौ। निमजन्निव भूजानिः, क्षणं नाज्ञास्त किंचन ॥ २११॥ ततश्चौलुक्यमादाय, हेमसूरिः सगौरवम् । नमस्कृत्य जिनाधीशां-स्तेषामग्रे निषेदिवान् ॥ २१२॥ राजानं ते जिनाःप्रोचुः, कुर्वाणा इव कर्णयोः। माधुर्यवर्यया वाण्या, सारसारप्रसारणीम् ॥ २१३ ॥ बहवोऽपि विवेकारः, संति स्वर्णादिवस्तुषु । धर्मतत्त्वे विवेक्ता तु (न), कोऽपि क्वाप्यतिनिष्णधीः ॥२१४॥ एकश्छेकस्त्वमेवासि, येन धर्म |वधात्मकम् । हित्वाऽश्मानमिवादद्रे, दयामूलः से रत्नवत् ॥ २१५ ॥ हृत्प्रियंकरणी संपद्, दीप्यते या नृपादिषु । धर्मदुमस्य सा पुष्पं, फलं मुक्तिरमाऽऽस्पदम् ॥ २१६ ॥ नृपत्वचक्रवर्तित्व-शक्रत्वाहत्त्ववैभवम् । न दूरे तस्य यस्य स्याद्, धर्मचिंतामणिः करे ॥ २१७ ॥ अभंगुरा तवैवेदृग, भाग्यभंगी विजृभते । हेमाचार्यो ययाँ प्राप्त-स्त्वया तत्त्वनिधिगुरुः ॥ २१८ ॥ अथ पूर्वे चुलुक्याद्या, हेमसूरिं प्रणम्य तम् । समालिंग्य च चौलुक्यं, प्रमोदादिदमूचिरे ॥२१९ ॥ बभूविम |वयं वत्स!, त्वयैव ननु पुत्रिणः । यः कापथं परित्यज्य, भेजे सत्पथपाथताम् ॥ २२० ॥ जिनधर्म विहायैनं, न कृतज्ञा प्रभुः परः। यो दत्ते नैतिमात्रेण, स्वभृत्येभ्यः परं पदम् ॥ २२१॥ खेलत् संशयदोलायां, स्थिरीकृत्य मनस्ततः। गुरोः पुरोऽस्य निर्माहि, निर्मायं कृत्यमात्मनः॥ २२२॥ गतेषु तेषु सर्वेषु, भूभृद् दध्यौ शिवादयः। तथाऽवद जिनास्त्वित्थं, तत् सत्यमिदमेव वा ॥२२॥ उत्पन्नचित्तसंशीति-वल्लिस्तत्तद्वचोंऽबुभिः । कुमारपालः सूरींद्र, किमेतदिति पृष्टवान्॥२२४॥
१ उत्तमजलसारणीम् (नीक), सरसारघसारणीम्, प्र. २ पृथक्कर्तारः-परीक्षकाः. ३ अतिकुशलः. ४ धर्मः, ५ मुक्तिरेव रमा मुक्तिरमा. मुक्तिरमाया आस्पदस्थान-तीर्थकरत्वादि. ६ रचना. ७ भाग्यभंग्या.८ पूर्वजाः. ९ पुत्रवन्तः. १० समर्थः-खामी. ११ अन्यः. १२ नमस्कृतिमात्रेण, १३ छवित.प्र,
॥९
॥