SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ धा. स्थावरत्रसभावतः ॥ ३८५ ॥ एकांक्षाः स्थावराः पृथ्वी-जलवयनिलद्रुमाः। चत्वारः प्रथमे तेषां, सूक्ष्माः स्युबादरा अपि ॥ ३८६ ॥ महीरुहास्तु प्रत्येक साधारणतया द्विधा । तेष्वाद्या बादरा एव, पश्चिमाः सूक्ष्मबादराः ॥३८७॥ प्रसाश्चतुर्विधा द्वित्रि-चतुःपंचेन्द्रियत्वतः। तत्र शंखजलालोका-क्रम्याद्या द्वींद्रिया मताः॥ ३८८ ॥ लिक्षापिपीलिकायूका-कुंथ्वाद्यास्त्रींद्रियास्तथा। द्विरेफमक्षिकादंश-प्रमुखाश्चतुरिन्द्रियाः॥ ३८९ ॥ शेषास्तिर्यग्नैरयिक-मानवत्रिदिवौकसः। ज्ञेयाः पंचेंद्रियास्तेऽपि, संझ्यसंज्ञितया द्विधा ॥३९॥ समनस्कतया शिक्षो-पदेशाधं विदंति ये । ते संज्ञिनो मतास्तेभ्यो, विपर्यस्ता असंज्ञिनः ॥ ३९१॥ आयुरुच्छासपंचाक्ष-हृद्भाषांगबलत्रयम् । प्राणा दशैषां संबंधाजीवाः प्राणभृतः स्मृताः ॥३९२॥ एकद्वित्रिचतुरक्षाऽ-संज्ञिसंज्ञिषु देहिषु । ते स्युश्चतुःषट्सप्ताष्ट-नवदिप्रमिताः क्रमात् ॥ ३९३ ॥ जीवाः पूर्वोदिता द्वेधा, पर्याप्तेतरभावतः । पर्याप्ताः प्राप्य पर्याप्तीः, जायंतेऽन्तर्मुहूर्ततः ॥ ३९४ ॥ सामस्त्येनोदितास्तास्तु, षड् जैनागमपारगैः । आहारकायकरणो-छासवाङ्मनसाख्यया ॥ ३९५ ॥ पर्याप्तिकर्मणा ताः स्यु-श्चतस्रः पंच षट् तथा । एकाक्षाणां विकलानां पंचाक्षाणामपि क्रमात् ॥ ३९६ ॥ व्यवहार्यऽव्यवहारि-तया जीवाः पुनर्द्विधा । आद्याः सर्वेऽपि ते, सूक्ष्मा, निगोदा एव चांतिमाः ॥३९७ ॥ भवस्था एव जीवाः स्युर्मुक्ताः कर्मपरिक्षयात् । कांतलोकांतविश्रांताः, सिद्धानंतचतुष्टयाः॥ ३९८ ॥ चिदानंदमयं शश्वद्, यत् सुखं निर्वृतात्मनाम् । वाग्मिनामपि तन्न स्यात् , कदाचिद् वाक्यगोचरः ॥३९९॥ धर्माधर्मनभःकाल-पुद्गलाः पंच कीर्तिताः । अजीवाः सह १ एकेन्द्रियाः, २ पंच इन्द्रियाणि. ३ प्राणाः. ४ दिक्-दश. ५ पर्याप्तयः. ६ गर्भजानाम्, संमूर्छजानां (असंज्ञीनां) तु पंचैव.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy