SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ सर्ग.. कुमारपालच० ॥२०१॥ पितु-हंससंज्ञस्य मंत्रिणः ॥ ३७१ ॥ तन्मध्ये त्रयमेतेषु, त्रिषु तीर्थेषु मत्पिता । आचकांक्ष व्ययीकर्तु, करे धर्तुं च है निर्वृतिम् ॥ ३७२ ॥ परं चिकीर्षितोऽप्यासीत् , तस्य यात्रोत्सवो न हि । ततो मृत्युक्षणे तातः, स मामूचेऽन्तिकस्थितम् ॥ ३७३ ॥ इमानि पंचरत्नानि, स्वीक्रियतां त्वयाऽङ्गज!। शत्रुजयादितीर्थेषु, देयं चैकैकमात्मना ॥ ३७४ ॥ द्वितयं च व्ययीकृत्य, निर्वाह्यं स्वकुटुंबकम् । इत्युक्त्वा तानि दत्त्वा च, मह्यं तातः परासिवान् ॥ ३७५ ॥ युग्मम् ॥ तदुक्तं तन्मया चक्रेड-धुना शेषं मणिद्वयम् । दृश्यतामिदमुक्त्वा त-जगडः स्वामिने ददौ ॥ ३७६ ॥ मार्तडमिव चंडार्चि-* मंडितं तत् करोदरे । धृत्वा नृपोऽपि संघोऽपि, पश्यतः स्म पुनः पुनः॥ ३७७ ॥ नाऽहं शस्यो महीशोऽपि, शस्योऽयं वणिगप्यलम् । यो माणिक्यमयीं पूजा, तनोति त्रिजगद्गुरोः॥ ३७८ ॥ध्यात्वेति दापयित्वा च, सार्धकोटीद्वयं धनम् । तस्मान्माणिक्ययुग्मं तत्, स नृमाणिक्यमग्रहीत् ॥ ३७९ ॥ युग्मम् ॥ तन्मध्यनायकी कृत्य, हारयुग्मं विधाप्य च । स प्रैषीद् रैवते शत्रु-जयेऽपि च तदहतोः॥ ३८॥ चौलुक्यः प्रस्थितस्तस्मात् , प्राप पत्तनमुत्सवैः। सत्कृत्य यात्रिकान् सर्वान् , विससर्ज च सादरम् ॥ ३८१॥ ___ अथ जिज्ञासमानाय, चौलुक्यपृथिवीभृते । स्वरूपं सप्ततत्त्वानां, हेमसूरिरदोऽवदत् ॥ ३८२ ॥ जैनेश्वरे मते जीवा-| जीवावाश्रवसंवरौ । निर्जराबंधमोक्षाश्च, सप्ततत्त्वीति कीर्त्यते ॥ ३८३॥ तत्र जीवा जिनः प्रोक्ता, ज्ञानदर्शनलक्षणाः। अनाद्यनंताः कर्तारो, भोक्तारः परिणामिनः ॥ ३८४ ॥ संसारिमुक्तभेदेन, ते जीवा द्विविधा मताः । तेष्वादिमाः पुन * लिटि-रूपम्. १ मोक्षं. २ माणिक्ययुग्मं. ३ हारयुग्मम्, रैवतशत्रुञ्जयसत्काहतो. -%95%AL-54-56.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy