________________
कुमारपालच०
॥ ७४ ॥
रे
दूत ! भवताऽस्तावि, वंदिवत् किं स्वनायकः ? । पुत्रस्तुत्या पितेव स्याद् भृत्यस्तुत्या न राड् महान् ॥ २७५ ॥ ब्रूषे च त्वं मदीशोऽरीन् पिनष्टि कणवद् रणे । तन्मिथ्या तेन पिष्टाः स्यु- दौंःस्थ्ये यदि परं कणाः ॥ २७६ ॥ बहुधाऽपि मुधा स्तौषि, तच्छौंडीर्यं परं मया । आजन्म भिक्षुतां मुक्त्वा, तस्याश्रावि न किंचन ॥ २७७॥ आचक्षीथाश्च तं पूज्ये, मयि भेकत्वरोपणात् । त्वया विवेकवाक्पत्यं, स्वदेश्यं साधु दर्शितम् ॥ २७८ ॥ एकं त्वयोचितं चक्रे, यत्स्वस्मिन्नहितीssहिता । नो चेत्परं खली कर्तुं कुतस्ते स्याद् द्विजिहता १ ॥ २७९ ॥ परं त्वं ज्ञास्यसे सम्यक् संग्रामे स्वमहिं प्रति । भेकत्वमथ तार्क्ष्यत्वं मम निस्सीमविक्रमैः ॥ २८०॥ इत्युदित्वाऽर्पयित्वा च काव्यं प्रत्युत्तरोचितम् । दूतं विसृष्टवांश्चाहूमानवंशाब्धिचंद्रमाः ॥ २८१ ॥ तदैव च समादिश्य, सेनान्यं समवर्मयत् । चमूसमूहं प्रत्यूह - मिव मूर्त विरोधिनाम् ॥ २८२ ॥ समुन्नतैर्द्विपवरै - जंगमैः पर्वतैरिव । वेगिभिर्वाजिभिः शक्र - वाजिनः सोदरैरिव ॥ २८३ ॥ आकारैरिव शौर्याणां सन्नद्धांगैः पदातिभिः । साकं शाकंभरीनाथो, निर्ययौ नगरान्निजात् ॥ २८४ ॥ युग्मम् ॥ अभ्रमभ्रं कषाग्राभिः, पताकाभिः पिवन्निव । सैन्योद्भूतरजः पूरै —र्भास्करं स्थगयन्निव ॥ २८५ ॥ पादातप्रौढहकाभि - विश्वं बधिरयन्निव । चौलुक्यकटकादेव - गणराजः स तस्थितवान् ॥ २८६ ॥ युग्मम् ॥ दूतोऽपि तावदागत्य विनिवेद्य रिपूदितम् । तत्काव्यं ददिवान् राज्ञे, सोऽप्येवं तदवाचयत् ॥ २८७ ॥ रे रे सर्प ! विमुंच दर्पमसमं किं स्फारफूत्कारतो, विश्वं भीषयसे ? क्वचित्कुरु बिले स्थानं चिरं नंदितुम् | नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्व्याधूतपृथ्वीधर - स्ताक्ष्यों भक्षयितुं समेति
१ महत्त्वम् पराक्रमम् वा २ सर्पता स्थापिता ३ दुर्जनी कर्तुम् ४ श्लो० २८८. ५ निकटं, पूर्व वा.
सर्ग. ४
॥ ७४ ॥