________________
कुमारपालच०
॥७३॥
ध्यात्वेति वह्नियंत्रार्थ-मुपासत ते द्रुतम् ॥ २४७ ॥ ते श्रीविक्रमसिंहस्य, सौधमध्ये रहः क्वचित् । कृत्वाऽधो यंत्रमाग्नेयं, ज्वलज्ज्वलनसंकुलम् ॥२४८॥ तस्यो तैलनिर्भिन्नो-दारदारुविनिर्मितम् । तिलसर्पपलाक्षादि-द्रव्यैर्गुप्तैः प्रपूरितम् ॥२४॥ व्योमेव चन्द्रोदययुक्, तारमुक्तावलम्बि च । उद्यानमिव सच्छायं, स्मेरपुष्पोपशोभि च ॥२५० ॥ सौगन्धिकापणमिव, |स्फारसौरभवैभवम् । विमानमिव भूमिष्ठ-माप्तैः सौधमचीलपत् ॥ २५१॥ चतुर्भिः कलापकम् ॥ दृष्ट्वा विक्रमसिंहोऽथ, दतत्ताहकारितं गृहम् । कृतकृत्य इव माप-निमंत्रणकृते ययौ ॥ २५२ ॥ व्यजिज्ञपच्च भूपाल!, मत्तपोभिः पुरातनैः। प्रेरि
तोऽत्र समायासीद, देवो देवेंद्रवत् स्वयम् ॥ २५३ ॥ अद्य मद्गृहमभ्येत्य, कुरुषे यदि भोजनम् । तदा स्वमेव मन्येऽह|मग्रण्यं पुण्यशालिनाम् ॥ २५४ ॥ मारवेषु न विश्वास्य-मिति जानञ् जनश्रुतिम् । भक्त्वा तदाग्रहं भोक्तुं, पाहैषीत् स्वजनं नृपः॥२५५॥ भक्त्या विक्रमसिंहेन, भोजितो नृपतेर्जनः । इतस्ततः परिभ्राम्यन् , वेश्मलक्ष्मीनिरीक्षया ॥२५६॥ अधस्ताद ध्मायमानाना-मंगाराणां मुहुमुहुः। जेघीयमाणमामोदं, वृद्धं कंचिद्व्यलोकत ॥ २५७ ॥ युग्मम् ॥ कोऽयं गंधो जरन् कस्मा-जिघ्रतीति वितर्कतः। गूर्जरेंद्रजनेनापि, तत्र दृष्टं समंततः ॥२५८॥ वहिच्छद्ममयं सद्म, तज् ज्ञात्वा चतुरत्वतः। स तदैवैत्य संभ्रांत, इव राज्ञे व्यजिज्ञपत् ॥२५९॥ तदा विक्रमसिंहोऽपि, समेत्य सदनात्पुनः । वैवाहिक इवात्यर्थ, भुक्त्यै पार्थिवमार्थयत् ॥ २६० ॥ स्वजनात् प्रागपि ज्ञात-स्वरूपो निश्चिकाय सः। अत्याग्रहेण दृश्यादि-चेष्टितेनापि तन्मनः॥२६१॥ अविदन्निव चौलुक्य-स्तं निवाशनादरात् । सत्कृत्य च गृहे प्रेषीत्, स्वहितैषी चचाल च ॥२६२॥
१ आत्मानम्. २ शोभा. ३ दाक्ष्यात् , ४ कन्यापुत्रयोः श्वशुर इव. ५ निवार्य-प्रतिषिध्य, निवृत्या, प्र..