________________
कु.पा.च. १३
लेनेव वस्त्रम् । यस्योदर्कः प्रथयति मुनेः शापवत्तापमन्त - वैरात्स्नेहादपि न कृतिभिस्तद्विधेयं विधेयम् ( मन्दाक्रान्ता ) ॥२३१॥ किश्च स्वामी च वप्ता च, यादृशस्तादृशोऽपि वा । कुलीनैः सेव्य एवैतन्मतं मतिमतां मतम् ॥ २३२ ॥ असौ चौलुक्यवंशीयः, श्रीसिद्धाधिपतेः पदे । वर्तिष्णुर्गुणहीनोऽपि, निषेव्यो देवतेव नः ॥ २३३ ॥ मोक्तमप्युचितो नैव, कुलीनानां | स्वनायकः । किं ? पुनर्हननीयोऽय - महो जाड्यविजृम्भितम् ॥ २३४ ॥ कथं वाऽसौ नृपो वध्यो, बहुशक्रपराक्रमः । हन्तुं न शक्यतेऽन्योऽपि, किं पुनः सैन्यभाक् प्रभुः ॥ २३५ ॥ ततः स्वस्य कुलस्यापि, यदि क्षेमं समीहसे ? । निजद्रोहमिव स्वामिद्रोहं मा स्म विधास्तदा ॥ २३६ ॥ वाचमाचम्य सामन्त-गदितामिति तामथ । ऊचे विक्रमसिंहस्ता - नस्तारिप्रौढविक्रमः ॥२३७॥ युष्माभिर्मृत्युभीत्यैष, सदोषोऽपि नृपः स्तुतः । भुजालानपि घिग् युष्मान्, कातरत्ववशंवदान् ॥ २३८ ॥ मयि जाग्रत्युदग्राभे, युष्माकं कैव मृत्युभीः । निस्तन्द्रे हि करीन्द्रे किं, कलभानां पराभवः १ ॥ २३९ ॥ घातिष्यते सुखेनैव, शक्तोऽप्येष मया छलात् । न बलं फलवद् यत्र, छलं तत्रोपयोक्ष्यते ॥ २४० ॥ सिंहादयोऽपि हन्यन्ते, छलेन स्वाधिकौजसः । किं वाच्योऽयं तु निःसार-तया बहुतृणं हि यः ॥ २४९ ॥ विधापयत मद्गेहे, वह्नियंत्रमयं गृहम् । स यथाऽऽकार्य चौलुक्योऽ-ध्यास्यते तत्र भुक्तये ॥ २४२ ॥ अधस्ताज्जाज्वलज्ज्वाल - जालभाजा हविर्भुजा । गृहे प्रदीप्ते तत्काष्ठ-वदेष प्रज्वलिष्यति ॥ २४३ ॥ अनेनौपयिकेनास्मिन् हतेऽन्यं स्ववशंवदम् । राज्ये निवेश्य चौलुक्यं, निर्वेक्ष्यामोऽद्भुतं सुखम् ॥ २४४ ॥ इति विक्रमसिंहोक्त-मपथ्यमपि पथ्यवत् । प्रत्यपद्यन्त सामन्ताः, स्वाम्यादेशोऽयमित्यमी ॥ २४५ ॥ व्यचारयंश्च चित्ते स्वे, यत्स्वा - वासप्रदीपनम् । कारयत्येष साऽस्यैव, सूचा भाविमहापदः ॥ २४६ ॥ परं भवति नो नाशो, भवितव्यस्य कर्हिचित् ।
"