SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. ॥१२६॥ प्रीतिस्तं कुपति प्रति ? । सस्नेहामप्यहो यस्त्वां, निःस्नेहामिव मुक्तवान् ॥ ३८७ ॥ तस्मिन् विधीयते प्रीति-र्यः स्वस्मिन् प्रीयतेतमाम् । विरक्त क्रियमाणा साँ, स्यादंधमुखमंडनम् ॥ ३८८ ॥ मर्तव्यं म्रियमाणेन, सार्धमित्थं जनश्रुतिम् । मत्वाऽपि नियमाणाऽसि, तस्मै कुप्रेयसे किमु ॥ ३९९ ॥ बत् तदाशामपास्यैव, चिंत्यतामपरो वरः। यस्तनोति त्वयिप्रीति, कोक्यां कोक इवोच्चकैः ॥ ३९० ॥ तस्येत्यनिष्टवाक्येन, प्रदोषेणेव पद्मिनी । परिम्लानमुखाऽम्भोजा, गुणश्रीगंदति स्म तम् ॥ ३९१ ॥ त्वं सुचर्यैकधुर्योऽपि, निंद्यं किमिति जल्पसि?। आद्रियन्ते भवाहक्षा, न हि पापोपदेशिताम् ॥ ३९२॥ कुलीनानां मृगाक्षीणां, निःस्नेहोऽपि पतिर्गतिः। वल्लरीणां हि शुष्कोऽपि, तरुरेवावलंबनम् ॥ ३९३ ॥ मुमोच न च निःस्नेहः, स मां किंतु विदग्धताम् । श्लोकसंकेततः शंके, परीक्षामासिवान् स्वयम् ॥३९४॥ यत्र जीवति जीवंति, नियंते च मृते स्त्रियः । घियते तत्कृते नो चेत्, किं नु मर्तव्यमश्मने ? ॥ ३९५ ॥ अपरप्रियनिर्माण, यत् त्वं वदसि मां प्रति । तद् युज्यते पणस्त्रीणां, कुलस्त्रीणांन धार्मिकः!॥३९६॥ हास्यमेतत् ततो हित्वा, यदि जानासि मस्प्रियम् । तानयेह वेगेन, नो चेन्मर्तु प्रयच्छ मे॥३९७॥ तादृग्निजप्रियाप्रेम-स्थेम्ना चित्ते चमत्कृतः। पुण्यसारो बभाषे तां, वाचं पीयूषधर्मिणीम् ॥३९८ ॥ यद्येवं निश्चयस्तेऽस्ति, ताश्रय निजाश्रयम् । सौभागिनेयि! कांतं ते, यथाऽऽनीय प्रदर्शये॥३९९॥ सा स्माह नोभिः कूटाभिः, प्रतीयेऽहं त्वदुक्तिभिः। प्रियमेलोऽसि सत्यं चेत्, तत्रैव स मेल्यताम् ॥ ४०॥ प्रियस्तां पुनराचष्ट, सम्यक् परिचयं विना । तमानीतमपीह त्वं, कथं विज्ञास्यसे वद ॥४०१॥ गुणश्रीः माह सुश्लोक!, १ प्रीतिः. २ स्थैर्येण. ३ वर्षिणीम्. प्र. ४ सुभगायाः-पतिप्रियायाः स्त्रिया अपत्यं स्त्री सौभागिनेयी तत्संबोधनम्. ५ न आभिः. ६ मिलधातोर्णिजन्तात् कर्मणि लोह. ॥१२६॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy