________________
तद्वाणवृष्ट्या सा, शूराणां भूयसामपि ॥ ५११॥ कृतहस्ततयोद्दाम-लघुहस्ततयाऽपि च । रिपुराम्रभर्ट मेने, द्रोणमेवापरं करणे ॥५१२॥ स्वधानुष्कतया वीरं-मन्यानपि मुदं नयन् । वणिग्जातेस्तदा क्लैब्य-दोषमायभटोहरत् ॥५१३॥
शतशः स शरान मुंचन, कौंकणेशश्च खंडयन् । न मनागपि तौ श्रांती, वज्रसंहननाविव ॥५१४ ॥ शस्त्राणि प्रतिशस्त्रैस्तै-रेवं चूर्णयतोस्तयोः । जेन्यमत्यूजितं जज्ञे, देवदानवयोरिव ॥५१५॥ स्वकुंजरादथोत्प्लुत्य, वनौका इव पादपम् (पात् )। लीलयाऽऽनभटः शत्रु-द्विपमारुक्षदक्षतः ॥ ५१६ ॥ पूर्व प्रहर मामिष्ट-दैवतं वा स्मराधुना। वणिक्सुतोऽपि त्वामेष, क्षात्रोत्तंसं निहन्मि रे ॥५१७॥ ब्रुवन्निति स खड्ड्रेन, मस्तकं कोंकणेशितुः । निल्यापातयद्भूमौ, दंडेन फलवत्तरोः॥५१८ ॥ युग्मम् ॥ अंहिते निहते तस्मिन्, व्यधुर्जयजयारवम् । हर्षेणाघभटोत्तंसं, स्तुवाना इव |सैनिकाः ॥ ५१९ ॥ निर्नायकतया दीना, इव शत्रुचमूचराः । तमेवाघभटं भेजु-स्तेषां ह्येतत्किलोचितम् ॥ ५२०॥
मल्लिकार्जुनभूजाने-मूर्धा सार्ध महर्द्धिकम् । कोशसर्वस्वमादाय, तामुद्दामा चमूमपि ॥ ५२१॥ श्रीचौलुक्यप्रभोराज्ञां, | तत्र देशे निवेश्य च । सहसाऽऽयभटस्तस्मात् , प्राप्तः स्वस्वामिसन्निधिम् ॥५२२॥ युग्मम् ॥ अनेकाऽमात्यसामंता-ध्यक्षं चौलुक्यभूभुजः। मल्लिकार्जुनशीर्षाजे-नाभ्यर्च्य चरणद्वयम् ॥ ५२३ ॥ शाटी भंगारकोव्याख्यां, पटं माणिक्यनामकम् ।
१ कृतो-ऽभ्यस्तो हस्तो-बाणादिनिक्षेपलाघव [शैध्य ] रूपा शिक्षा येन स कृतहस्तः-कृतपुंखः-सुशिक्षितशरमोक्षयोधादिस्तस्य भावस्तत्ता तया. तथा उद्दामश्च-उत्कटः लघुहस्तक्ष-लघु:-क्षिप्रकारी हस्तो यस्य स लघुहस्तः-शीघ्रवेधी, तयोर्भावस्तत्ता तया च. २ द्रोणाचार्यम्, ३ खधनुर्धरतया. ४ सुचंदयन् , प्र. ५ युद्धम्, प्र. ६ वानरः, ७ शत्री, ८ मारिते.