SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सर्ग. ४ कुमार हंतुं, त्रपते त्वां वणिक्सुतम् ॥ ४९९ ॥ क्षोणीक्षोदक्षमक्षोणि-भृत्पक्षक्षपणोल्वणः । दंभोलिः किं ? ससंरंभो, भवेत्पेष्टुं पालच० हर्षत्कणम् ॥ ५००॥ पुनरावभटः प्रोचे, नैकांतः कांत एष ते । यत्तरेस्वी स्फुरत्क्षत्र-पुत्रो नैव वणिक्सुतः ॥५०१॥ क्षत्रियोऽपि भवेत्कोऽपि, तृणभंगेऽपि न क्षमः । वणिक् कोऽप्यद्रिभेदेऽपि, वज्रवत् प्रौढविक्रमः॥ ५०२॥ क्षत्रता वा वणिक्ता वा, ज्ञायते नैव वाक्यतः। यावन्न जन्यते जन्यं, शौर्यस्वर्णकषोपलम् ॥५०३॥ क्लीबस्येवोरुशौर्येण, तस्य धार्थेन ६ तेन सः। कौंकणेशोऽतिविस्मेरः, पुनराचष्ट तं प्रति ॥ ५०४ ॥ चिकीर्षसि सरीसृपेश्वरशिरःशिखाकर्षणं, जिहीर्षसि ४ गजांतकृतिकृ (वृ) तवक्रदंष्ट्रांकुरम् । दिधीर्षसि समीरणप्रबलकीलदावानलं, जिगीषसि यदद्य मां बलनिधि वणिकजापुत्र ! रे ॥ ५०५ ॥ ( पृथ्वी ) कोपादाम्रभटोऽवोचद्, वाचालस्येव ते वृथा । इयं वाक्छ्रता शूर-शक्तिश्चेच्छस्त्र माश्रय ॥ ५०६ ॥ यद्दीपः शलभे, हलं क्षितितले, दावानलः कानने, तिग्मांशुस्तिमिरे, मरुज्जलधरे, पशुश्च कारस्करे । Mकामायुर्भुजगे, 'हरिः करिवरे, ग्रीष्मतुरंभश्चये, वज्रं क्षोणिधरे, करोति तदहं कुर्वे वणिग्भूस्त्वयि ॥ ५०७ ॥ (शार्दूल.) उदित्वेति शरव्यूह, मुंचत्याम्रभटे रुषा । प्रतिचिक्षेप तं" बाणै-लीलया मल्लिकार्जुनः ॥ ५०८ ॥ यदृच्छया प्रसपंतः, खेतले भूतलेऽपि च । कंकपत्रास्तयोश्चक्रुः, पत्रितोचितमात्मनः ॥ ५०९॥ध्रुवं युयुधिरे तद्वत्, तद्विमुक्ताः शरा अपि । परस्परेण यत् खंडी-कृतास्ते न्यपतन रणे ॥५१०॥ सांद्रयाऽप्यन्दवृष्ट्या श्रीः, शूरस्यैकस्य नश्यति । नष्टा १ सोत्साहः, २ शिलालवम्. ३ निर्णयः, ४ शोभनः, ५ शूरः, ६ प्रागल्भ्येन-उद्धतत्वेन-निःशंकत्वेन, ७ आश्चर्यान्वितः, ८ शेषनाग०, ९ जेतुमिच्छसि १० शूरस्य-सिंहस्य शक्तिरिव शक्तिर्यस्य स शूरशक्तिः, ११ किंपाकवृक्षे, १२ गरुडः, १३ सिंह; १४ प्रतिचिक्षेपि, प्र, १५ शरव्यूहम् , १६ बाणाः, १७ पक्षितोचितम् .
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy