SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सेवां समीहते । कुकूलानलयोगेन, शीततां तचिकीर्षति ॥ ४८५ ॥ दंडं ग्रहीतुमाप्तोऽस्ति, सोऽयमावभटस्तव । तं दातुमेव संग्राम - मागच्छन्नस्मि पश्य माम् ? ॥ ४८६ ॥ तं दूतमिति संतर्प्य, विसृज्य च तदैव सः । चमूसमूहरोचिष्णुः, प्रतस्थे मल्लिकार्जुनः ॥ ४८७ ॥ तच्चक्रेण समाक्रांता, मेदिनी खेदिनी भृशम् । रजोव्याजेन नंदेव, धनाश्रयमशिश्रियत् ॥ ॥ ४८८ ॥ कियत भूमिमाक्रम्य, स नृपः पुरतो निजात् । निवेश्य कटकं तस्थौ । चौलुक्यानीकसन्निधौ ॥ ४८९ ॥ दूतः सोऽपि समभ्येत्य, श्रीमदाभटाग्रतः । मल्लिकार्जुनवाक्यानि तान्यशेषाण्यचीकथत् ॥ ४९० ॥ प्रातर्द्वे अपि सैन्ये ते, योद्धुमुद्यद्भटोर्मिके । रणाग्रमापतुः प्राच्य - प्रतीच्यावर्णवाविव ॥ ४९१ ॥ प्रौढद्विपवरारूढौ, नानाशस्त्रभयंकरौ । धैर्यसंवर्मितावंत - बहिः सन्नाहधारिणौ ॥ ४९२ ॥ तौ श्रीआम्रभटश्रीम-न्मल्लिकार्जुनभूभुजौ । संजग्माते तदोद्दाम-स्थामानौ शरभाविव ॥ ४९३ ॥ युग्मम् ॥ संपरायोचितां काय - स्फूर्त्तिं वाक्यप्रलंघिनीम् । तौ पश्यंतौ मिथश्चित्ते, चित्रीयामासतुः क्षणम् ॥ ४९४ ॥ भाणाम्रभटो राजन्!, योधयित्वा भटानिमान् । विधीयते कथं व्यर्थ, मर्त्यकीट विकुट्टनम् ॥ ॥ ४९५ ॥ अर्जितं बिरुदं येनं, त्वया 'राजपितामहम्' । ऊर्जस्वि तद्भुजाशौर्य, दिर्हक्षेऽहं तवाधुना ॥४९६ ॥ तदावां कुर्वहे युद्धं, पश्यंत्वेते चमूचराः । विदंतु चोभयोरद्य, माद्यदोर्विक्रमावधिम् ॥ ४९७ ॥ शशंस कौंकणेशोऽथ, साधु साधु महाभट ! | तुष्टोऽस्म्यहं भृशं धैर्या — वैष्टमेन तवामुना ॥ ४९८ ॥ अवश्यं दर्शये तुभ्यमभ्युद्यद्भुजविक्रमम् । परं स्फूर्जन्नसो १ तुषानलयोगेन २ दीप्तिशीलः ३ गगनम्, ४ नगरात् ५ युद्धाप्रम्, पक्षे उच्चशब्दम्. ६ मृगेन्द्र विशेषौ ७ भुजाशौर्येण ८ द्रष्टुमिच्छामि, ९ धैर्यावलंबनेन, १० चेष्टमानः, ११ भुजविक्रमः,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy