SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ .५ कुमारपालच० ॥८८॥ MARCL ECCAM शायदैव स्थापयाम्यमुम् ॥ १३० ॥ ततोऽहंकारकीलेन, कीलिताऽऽत्मेव तत्क्षणम् । देवबोधिः समायासी-चौलुक्यनृपपत्तनम् | P ॥ १३१ ॥ स तस्मिन्निंद्रजालीव, नानाकौतुकदर्शनात् । संमोहयितुमारेभे, नागरान् गुणसागरान् ॥१३२॥ विद्यां वश्यादिकां तां तां, देवबोधिः प्रकाशयन् । सिद्धवद् विस्मयस्मरैः, पौरैः शश्वदुपास्यत ॥ १३३ ॥ निष्कलोऽपि व्रती मान्यः, कलावांस्तु विशेषतः । स्वभावतः प्रियं हेम, किं वाच्यं रत्नरोचितम् ?॥ १३४ ॥ कलावतां प्रसंगेन, देवबोधिं रतुवन्नथ । | निस्सीम तत्कलावत्त्वं, चौलुक्याय जनो जगौ ॥ १३५ ॥ 'बहींव वारिदं देव-बोधिं द्रष्टुं समुत्सुकः । गुर्जरेशो निजानाप्तां-स्तमाह्वातुंजिग्धिवान् (प्रजियिवान् )॥१३६॥नलिनीनालदंडाढ्यं, रंभापत्रमयाऽऽसनम्। आमतंतुभिरानद्धं, बाप्पच्छेद्यैरिवाणुभिः ॥१३७॥ शिशूनामष्टवर्षाणां, स्कंधन्यस्तं सुखासनम् । अध्यास्य प्रस्थितःप्रात-देवबोधि पालयम् ॥१३८॥ युग्मम् ॥ तत्तादृगद्भुतालोक-विकसन्नयनांबुजाः । आकृष्टा इव मंत्रेण, पौरास्तं परिवबिरे ॥१३९ ॥ तथैव स वृतः पौरैः, स्वामीव निजसेवकैः । विस्मापयन् सभालोकं, चौलुक्यास्पदमासदत् ॥ १४०॥ निभाल्य तं तथा भूपो-ऽध्यासीत् कायं पिचंडिलः । वेदं सुखासनं रांभ-मस्य काऽपि कलाऽद्भुता ॥ १४१॥ सुखासनादथोत्तीर्णः, सुवर्णासनमाश्रितः । देवबो धिर्नृपं नम्र-माशास्ते स्मेति निस्तुषम् ॥१४२॥ निष्कामोऽपि महाव्रती प्रमथितानंगोऽपि देहेऽङ्गनां, बिभ्रत् प्रेतवने वससन्नपि शुचिर्भीमोऽपि शांतात्मकः । पार्श्वस्थैकवृपोऽपि वाजिगंजतायुहामलक्ष्मीप्रदो, दुर्लक्षोरुचरित्रभृद् भवतु ते श्रीशंकरः १पत्तने. २ आश्चर्यविकसितैः. ३ रत्नेः प्रकाशितम्.७ प्रजिग्घिवान् , प्र. प्रजिग्ध्यिवान् , प्र. ४ हि-गती वृद्धौ चेति खादिधातोः कसुः. ५ चौलुक्यसभाम् तुन्दिल:-बृहत्कुक्षिः.७ कदलिमयम्. ८ अनिर्वचनीया. ९ शान्त आत्मा यस्य सः.१० वाजिगजानां समूहः वाजिगजता. ॥८८॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy