SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० सर्ग.८ ॥१७६॥ यया देवश्रिया पुरा । त्र्यहं बुभुक्षितो मार्गे, करंभ भोजितो नृपः॥ ४५१॥ कृतज्ञत्वेन तत्पुण्य-वृद्धये स्वार्थसिद्धये। स करंभवसत्याख्यं, विहारं निरमापयत् ॥ ४५२॥राजर्षिरन्यदा प्राप्त-श्चैत्यं वाग्भटकारितम् । जिनाधीशान् नमस्कर्तु, तिरस्कर्तुं च किल्विषम् ॥ ४५३ ॥ तत्रायाति स्म नेपाल-नृपप्रहितमद्भुतम् । प्राक्तनैः कथितं माना-दंगुलान्येकविंशतिम् ॥ ४५४ ॥ बिंबं श्रीपार्श्वनाथस्य, चंद्रकांतमणिमयम् । बाह्याभ्यंतरसंताप-नाशकं दर्शनादपि ॥ ४५५॥ युग्मम् ॥ तदिवं चंद्रबिंबाभ, पश्यतो नृपतेम॒हुः । अमोदिषातामुचितं, कुमुदे इव लोचने ॥ ४५६ ॥ तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् ॥ देहि मह्यमिदं चैत्यं, यथैतों स्थापयाम्यहम् ॥४५७ ॥ हृष्टो व्यजिज्ञपत् सोऽपि, प्रसादोऽयं महान् मयि । श्रीकुमारविहारोऽस्तु, चैत्यमेतदतःपरम् ॥ ४५८ ॥ उज्ज्वलीकार्य तद् बिंब, पटुवैकटिकवजैः। |स्वचित्त इव तत्रैव, चैत्ये भूभृदतिष्ठिपत् ॥ ४५९ ॥ चैत्यस्य शंकनाशेव, कृते छिद्रेऽतिपुष्कले। तस्य बिंबस्य संपन्नः, पूर्णदुकरसंगमः॥४६०॥श्रवति स्म तेतो बिंबा-चंद्रबिंबादिवोच्चकैः। सुधारसः समस्ताधि-व्याधिध्वंसनिबंधनम् ॥ ४६१ ॥ तेन दिव्यौषधेनेव, दोषाः सर्वेऽपि चाक्षुषाः । तापाश्च विविधाः सद्यः, शांतिं यांति स्म देहिनाम् ॥४६२॥ चिकारयिषितं पूर्व-मोराजपराजये। चतुर्विशतिहस्तोच्चं, चैत्यं तारंगभूधरे ॥४६३ ॥ विधाप्याजितनाथस्य, बिंबमेकशतांगुलम् । नृपो निवेशयामास, मूर्त धर्ममिवात्मनः॥ ४६४॥ युग्मम् ॥ स्तंभतीर्थे प्रभोर्हेम-सूरेयंत्राभवद् १दिनत्रयम्. २ अकारयत्. ३ पापम्. ४ पूर्वपुरुषैः. ५ मूर्तिम्. ६ झवेरी इति लोके. ७ चालनीय जालिका-शुकनाशा. ८ च-प्र. ९चंद्रकिरणसंगमात्. १० कारयितुम् इष्ट-वांच्छितम्. ॥१७६॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy