SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ SHRUGALOUSNESSIONAL द्रविणं दृष्ट्वा, निर्लोभा अपि तत्क्षणम् । तदेवं तृणवद् देव !, त्वत्तस्त्यजति कः परः ॥४३८॥ द्रव्यं गृहन्नपुत्राणां, नृपः स्यात् तावतां सुतः । त्वं तु विश्रीणयस्तेषां, पिता भवसि निश्चितम् ॥ ४३९ ॥ गुरुणा गौरवेणेत्थं, समुपश्लोकितो नृपः। अमानिव प्रमोदेन, हृदि स्वास्पदमासदत् ॥ ४४०॥ | अथ स्वपरयोः पुण्यं, चैत्यनिर्मापणाद् विदन् । निर्मापयितुमारेभे, तानि भूपतिरादरात्॥४४१॥ पत्तने श्रीत्रिभुवनपालाख्यं चैत्यमद्भुतम् । पंचविंशतिहस्तोच्चं, कारयित्वा विमानवत् ॥ ४४२ ॥ स्वपितृश्रेयसे तत्र, नेमिबिंबमतिष्ठिपत्। पादान्वितं शतं माना-दंगुलानि स पुण्यधीः॥ ४४३ ॥ युग्मम् ॥ प्राक्क्लुप्तपललास्वाद-द्वात्रिंशइंतशुद्धये । एकवेद्यां गतविद्यान, मंडपादिपरिस्कृतान् ॥ ४४४॥ नंदीश्वरस्फुरद्राज-धानीचैत्यानुजानिव । प्रासादान कारयामास, तावत्संख्यान क्षमाधवः॥ ४४५ ॥ युग्मम् ॥ गुरोरादेशतस्तत्र, द्वौ सितौ द्वो शितद्युती। द्वौ रक्तौ हौ च नीलांगौ, पोडश स्वर्णरोचिषः ॥ ४४६ ॥ चतुर्विशतिचैत्येषु, नाभेयप्रमुखाञ् जिनान् । चतुर्यु चतुरः सीम-धरादीनुधृतेष्वथ ॥४४७॥ रोहिणी" समवसृति, स्वगुरोः पादुकास्यीम् । अशोकढुं च विस्तीर्ण, स विधाप्य न्यवीविशत् ॥४४८॥ त्रिमिर्विशेषकम् ॥ दुःस्थत्वे भ्रमता पूर्व, निर्धनेन महीभृता । हृतासु रूप्यमुद्रासु, यो मृतोऽभवदुंदुरः ॥४४९ ॥ तदुत्थाघनिदाघस्य, लाघवार्थमचीलपत् । स धारायंत्रवच्चार, चैत्यमुंदुरसंज्ञकम् ॥ ४५०॥ अविदुष्याऽपि नामाचं, १ यावतामपुत्राणाम्. २ ददत्. ३ खस्थानम्. “प्रापत्. ५ छात (परथार) इति ख्यातबद्धभूमिभागात. ६ पंचविंशत्यधिकं शतमंगुलानि. ७ निर्दोषान्. ८ अलंकृतान्, ९ द्वात्रिंशत्संख्याकान्. १० श्वेतो. ११ कृष्णौ. १२ रोहिणी-प्रथमा विद्यादेवीम्. १३ "कुंवारो" इति लोके.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy