________________
कुमारपालच०
॥ १९५ ॥
श्रुतंचारित्र - कल्पद्रुमफलो नृपः । तस्मिन्नत्युत्सुको जज्ञे, बुभुक्षुरिव भोजने ॥ २०४ ॥ दातुं न युक्तं पुत्रस्य, राज्यं तत्पापभारतः । यदयं भवपाथोधौ, पोतवन्मंक्षु मक्ष्यति ॥ २०५ ॥ राज्यं दत्त्वा मयाऽयं चेत्, क्षिप्यते नरकावनौ । तदा मैड्रंकरत्वं मे पितुः स्वात् कीदृशं सुते ॥ २०६ ॥ इति ध्यात्वा निजे राज्ये, यॉमेयं न्यस्य केशिनम् । दत्त्वा च शासनेऽनल्पान् ग्रामांस्तत्प्रतिमाऽर्चने ॥ २०७ ॥ उदायनः सपुत्रोऽपि नृपकेशिकृतोत्सवः । अस्मत्तो व्रतमादद्रे, बीजं मोक्षतरोरिव ॥ २०८ ॥ चतुर्भिः कलापकम् ॥ षष्ठमुख्यैस्तपः कष्टे - व्रताहादपि स व्रती । लग्नः शोषयितुं कर्म -- पंकं रविरिवांशुभिः ॥ २०९ ॥ सोऽयमीदृक्चरित्र श्री - लीलापात्रमुदायनः । राजर्षिश्वरमोऽस्माभिः श्रीश्रेणिकसुसौच्यत ॥ २१० ॥ श्रुत्वेति दृष्टः पप्रच्छ, पुनः श्रेणिकनंदनः । राजर्षेरस्य किं भावि १, पुरस्ताद् भगवन् ! वद ॥ २११ ॥ जिनेंद्रस्तं जगौ तस्य, मुनेः पालयतो व्रतम् । भविता व्याधितस्येव, व्याधिः कदशनैर्महान् ॥ २१२ ॥ स्वदेहेऽपि निरी हत्वा - चिकित्सितमनिच्छतः । तस्याग्रे वक्ष्यते वैद्य - दधि भुंक्ष्व गदापहम् ॥ २९३ ॥ अतिव्याधिक्षतं वीक्ष्य, निजकायमुदायनः । गंता गोष्ठास्पदं कांक्षन्, दधि प्रासुकमात्मनः ॥ २१४ ॥ ततोऽपि विहरन् याता, स वीतभयपत्तनम् । ज्ञात्वा तदागमं केशी, वक्ष्यते च कुमंत्रिभिः ॥ २१५ ॥ एष त्वन्मातुलोऽत्रागा - नूनं राज्यजिघृक्षया । दुश्वरेण व्रतेनाति - निर्विण्णो यदसौ हृदि ॥ २१६ ॥ पुराऽयं व्रतमादत्त, वैराग्याद् दृढचित्तवत् । ततोऽधुना परिभ्रष्टः, क्लीववत् सुखमिच्छति ॥ २१७ ॥ वदिष्यति ततः केशी, संप्रत्येवैष किं न हि । राज्यं न्यासवदादत्ते ?, को लोभो मेऽन्यवस्तुनि ।
१ कृतश्रवण०. २ चारित्रे. ३ महं-मंगलम् ४ भागिनेयम् ५ आज्ञापत्रे ६ ग्रहीतुमिच्छया ७ व्रततः. ८ कातरवत्.
.
९
॥ १९५ ॥