________________
कुमार- बतायै, माहात्म्यार्थ तुदति जनतां सेवकस्याऽद्भुता धीः ॥ ४२५ ॥ (मंदाक्रान्ता) तद् भूपसेवकत्वेन, तस्थिवानद्य पालच० 18 यद्यहम् । मम किं ? दूषणं तर्हि, विचारय रुषं त्यज ॥४२६॥ वदत्यपीति प्राणेशे, तत्प्रिया रोषपोषतः । प्रोचे प्रतिवचो3
नैव, द्वारं नाप्युदजीघटत् ॥ ४२७ ॥ ततः खिन्नः प्रियः प्रोचे, घिङझे कामान्धतामिमाम् । ययेगुलोलहक्पाशे, ॥१४८॥
मयाऽऽत्माऽक्षेपि पक्षिवत् ॥ ४२८ ॥ गन्धमूषीव सण, किमियं स्वीकृता मया । नादरीतुं न मोक्तुं च, शक्यते या कथश्चन ॥ ४२९ ॥ ईदृगश्रुतपूर्वतद्, वाक्यं श्रुत्वा प्रियोदितम् । सुबुद्धिपत्नी क्रुद्धोच्चै-रिमुद्घाट्य निर्ययौ ॥४३०॥ अशोकवनिकां श्रित्वा, वंचयित्वा च वल्लभम् । लग्ना पितृगृहं गन्तुं, स्त्रीणां रोषे हि तत्पदम् ॥ ४३१ ॥ अन्तः क्रोधाग्निधूमेन, बहिः सन्तमसेन च । रुद्धाक्षी सा विदामास, नावानं पितृसद्मनः ॥ ४३२॥ यूथभ्रष्टा कुरंगीव, भ्रमन्ती च यतस्ततः। दधे मलिम्लुचैलेक्ष्मी-भ्रान्त्या रूपविभूषणैः॥४३३ ॥ विलपन्त्या मुखे तस्या, न्यस्य पी(पि) ण्डितमम्बरम् । ते ललुर्भूषणश्रेणी, तेषां कर्मेदमादिमम् ॥ ४३४ ॥ ततः पुष्पोल्लसद्वलिं, पल्ली सिंहगुहायाम् । नीत्वा तां ते ददुः पत्ये, विजयायोपदामिव ॥ ४३५ ॥ क्रूरस्वरं कुरूपं च, काकोलमिव वीक्ष्य तम् । सा हंसीव व्यरंसीद् द्राक्, तदर्शनपथादपि ॥४३६॥ तां सुबुद्धिप्रियां मात्रे,दत्त्वा पल्लीश्वरोऽवदत् । प्रबोध्येयं तथा मात-र्यथा स्याद्रमणी मम ॥४३७॥ विजने सा जनन्योचे, वत्से ! त्वत्पुण्यमुल्बणम् । मत्पुत्रो यत त्वयि स्निग्धो, रुक्मिण्यामिव केशवः॥ ४३८ ॥ एकैकेन
॥१४८॥ गुणेनाढ्याः, सन्त्येवात्र जना घनाः । सर्वोत्तमगुणग्राम-ग्रामणीमत्सुतः पुनः॥४३९ ॥ स्वानुरूपं पति कृष्णं, यथा,
१छुछुन्दरी. २ पिण्डाकारकृतं वस्त्रम्. ३ तैर्लळे भूषणश्रेणी, प्र. ४ पल्युः, प्र. ५ द्रोणकाकमिव, शूकरमिय, वा.