________________
तदर्थाssचरणव्यग्रं, तं च कापालिकं पुरः । तदुपांते नरं चैकं, दीनं भीमो न्यभालयत् ॥ २६३ ॥ युग्मम् ॥ किमेत दिति विस्मेरे, हरिवाहननंदने । कापालिकाय दत्त्वाऽसिं, तत्तनौ सा भुजाऽविशत् ॥ २६४ ॥ पाखंडी नैप सामान्यः, किं कर्ता चासिना मम । पश्यामि गुप्तो ध्यात्वेति, स कोणे तत्र तस्थिवान् ॥ २६५ ॥ अर्चित्वा कालिकां सोऽथ भी मासिं कलयन् करे । केशैः कृष्ट्वा स्वनेदिष्ठं, नरमित्यब्रवीद् रुषा ॥ २६६ ॥ रेरे स्मरेष्ट मात्मीयं दिष्ट्याऽन्तस्तेऽधुनाऽऽगमत् । छित्त्वा यत् ते शिरः पद्म- मर्चयिष्यामि देवताम् ॥ २६७ ॥ स जगाद जिनेंद्रोऽस्तु, शरण्यः शरणं मम । तद्भक्तश्च | प्रभुर्भीम- चंडपाखंडिखण्डनः ॥ २६८ ॥ यो वारितोऽपि नैवास्थात्, त्वया दुष्टेन संसजन् । यदि स स्यादिाप्तश्च, तर्हि त्वां चूरयेद् रयात् ॥ २६९ ॥ पाखंडी भीमनाम्नाऽपि ज्वलन्नाचष्ट दुष्ट ! रे । भीममृर्भैव देव्यर्चा, मयाऽऽसीत् | प्राक् चिकीर्षिता ॥ २७० ॥ स क्लीबवत् परं नष्ट - स्त्वमानीतोऽसि तत्पदे । सोऽपि विंध्ये मुनिपार्श्वेऽस्तीति देव्योदितं मम ॥ २७९ ॥ अयं तस्यैव रे खड्गो, जीविर्तव्यमिवौजसः । आनायितो मयाऽस्तीह, त्वच्छिरश्छेदकाम्यया ॥ २७२ ॥ किंच यः शरणीचक्रे, जिनो भीमोऽपि च त्वया । न त्वां त्रातुमलंभूष्णू, तौ रुष्टे मयि दैववत् ॥ २७३ ॥ यद्येषा कालिका देवी, त्वयाऽशरणयिष्यत । अत्रास्यथास्त्वमेर्तर्हि, कदाचिदनया तदा ॥ २७४ ॥ इत्याक्षिप्य स तं हंतुं, यावदुद्यच्छतेऽधमः । तावद् भीमोऽतिभीमौजा- स्तमधिक्षिप्तवानिति ॥ २७५ ॥ रेरेऽधम ! किमाचक्षे, यद् भीमो नेशिवानिति । स तवाहं पुरोऽस्मीह, प्रहरस्व बलं यदि ॥ २७६ ॥ वेद्मि शक्तिं तदाऽहं चेद्, बलिनं हंसि कंचन । परं सर्वो बलिं दत्ते, १ भाग्येन. २ नाशः - मृत्युः ३ संसर्ग कुर्वन्. ४ जीवनमिव पराक्रमस्य. ५ 'भूते च' इति लिङ् निमित्ते लृङ् भूते भविष्यति च क्रियाऽतेपत्तौ ६ तर्हि. ७ मरणकाले.