SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. सर्ग.८ ॥१६८॥ भव्ये, स्नीकटाक्षा इवार्भके । उपायास्तत्कृताः सर्वे, वृथात्वं तत्र तेनिरे ॥ २३०॥ प्रमीतामिव तां मत्वा, पितरौ तदुजातुरौ । क्षणं विनिततद्दुःखां, मूर्छामानछेतुस्तराम् ॥ २३१॥ हरिश्चन्द्रः सचैतन्यो, मंत्रिमंत्रेण तत्क्षणं, मध्ये शिवपुरं विष्वक्, पटहानित्यजूघुषत् ॥ २३२ ॥ सज्जयिष्यति पुत्रीं य-स्तस्मै दापिष्यते मया । राज्यार्बेन समं सेयं, कुललक्ष्मीरिवांगिनी ॥ २३३ ॥ ताहगाघोषणं श्रुत्वा, विक्रमः श्रितसत्क्रमः । निजोमिकापरीक्षार्थ, ययौ राजसुताऽन्तिकम् ॥ २३४ ॥ नृपस्तदर्शनादेव, स्वसुतां जीवितां विदन् । अभ्युत्थानादिना मित्र-मिव तं समतूतुषत् ॥ २३५ ॥ दृष्ट्वा तां विक्रमस्त्रस्य-द्विषोर्मिस्वोर्मिकाजलैः । आच्छोटयन् मुखे साऽपि, सुप्तेव द्रागजागरीत् ॥ २३६ ॥ विकसन्नेत्रपद्मा सा, पद्मिनीव नृपात्मजा । तं भास्वन्तं पुरः प्रेक्ष्य, युक्तमेवान्वरज्यत ॥२३७॥ सज्जितां स्वसुतां दृष्ट्वा, कृतहर्षाश्रुपल्वलः। भूपालः स्तुतिवाचाल-स्तं विक्रममदोऽवदत् ॥ २३८ ॥ हृदयालुदयालुश्च, त्वमेकोऽस्यधुना ध्रुवम् । परार्तिहरणे यस्य, |निकामरसिकं मनः ॥ २३९ ॥ आस्तामजननिस्तस्य, जननीयौवनच्छिदः। आर्त नोपंचरीकर्ति, सामर्थ्ये सति यः कुधीः ॥ २४०॥ यद्वा तवोत्तमत्वस्य, वास्तवोऽयं स्तवः कियान् । जिनोप्यकृत यत्पाणी, पारणं पुण्यकारणम् ॥ २४१॥ हरि|श्चंद्रस्ततस्तेन, परिणाय्य निजांगजाम् । तदैवाऽदित राज्याच, सत्यसन्धा हि साधवः ॥ २४२ ॥ ततो द्विपवरारूढो, रत्नमंजरीसंयुतः। अभ्रमूर्द्धस्थितश्चन्द्र, इवैकाश्रिततारकः ॥ २४३ ॥ विक्रमोऽयं स्मरो नूनं, नानामुनिकदर्थनात् । दुःस्थो|४| घोषणाम् , प्र. २ मनखी-विचारशीलः, ३ अत्यंतम्. ४ अनुत्पत्तिः, अथवा धिक्कारः, ५ पुनः पुनरतिशयेन वोपकरोतीति उपचरीकर्ति उपपूर्वाद् यद्दल| गन्तात् करोतेलं. ६ ल. Ne%COUNCUSEGAON ॥१६८॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy