________________
ततस्त्वं कोपसंसाप - शान्त्यै पीत्वा शमामृतम् । निर्मान्ती धर्मकर्माणि, स्वगृहे तिष्ठ नन्दिनि । ॥ ४६९ ॥ ततः प्रभृति साध्वीव, निमग्ना शमवारिधौ । जग्राहाभिग्रहमिमं सुबुद्धिसचिवप्रिया ॥ ४७० ॥ अहं सर्वस्वनाशेऽपि, शिरश्छेदेप्यतः परम् । यावज्जीवं करिष्यामि, न रोषं निजशोषवत् ॥ ४७१ ॥ तत्पित्राऽथ तदीयांग - व्रणरोहणहेतवे । लक्षपाकस्य तैलस्य, व्यधाप्यन्त घटास्त्रयः ॥ ४७२ ॥ तस्या वेश्मनि तत् तैलं, लातुं जातुरुजातुरौ । कौचिन्मुनी समायातां, धर्माशाविव देहिनी ॥ ४७३ ॥ तदा चावधिना पश्यन्, भरतक्षेत्रमञ्जसा । सुरेन्द्रः पर्षदन्तःस्थोऽ-वदद् वृन्दारकानिति ॥ ४७४ ॥ पराजिग्ये तथा कोप-मचंकारितभट्टिका । यथा कोपयितुं नैतां, प्रगल्भन्ते सुरा अपि ॥ ४७५ ॥ अश्रद्धालुस्तदिन्द्रोक्तं, तां परीक्षितुमुत्सुकः । देवस्तत्सद्म कोऽप्यागात्, कौतुकी नालसो यतः || ४७६ ॥ तदैव याचिते तैले, मुनिभ्यां सा महाशया । स्वदास्याऽऽनाययामास, तैलकुंभं गृहान्तरात् ॥ ४७७ ॥ तत्कोपाय सुरो दास्या, तं कुम्भं पथ्यभंजयत् । तद्भंगे सा पुनर्द्वैती - यीकमानाययत् तथा ॥ ४७८ ॥ तत्रापि भने देवेन, शान्ताऽमात्यप्रिया स्वयम् । तृतीयं घटमानीय, प्रतिनोस्तैलमार्पयत् ॥ ४७९ ॥ तदाऽवादि प्रतिभ्यां साऽस्मदर्थं महती तव । तैलहानिरभूद् दास्यै, न कोद्धव्यं ततस्त्वया ॥ ४८० ॥ स्मित्वा साऽभिदधे साधू !, प्राप्ता कोपतरोः फलम् । तथाऽहं न यथा मूर्द्ध-च्छेदेऽपि | विदधामि तम् ॥ ४८१ ॥ कथमित्युदिते ताभ्यां मन्त्रिपली स्वकोपतः । यथाऽनुभूतं तद् दुःखं, सर्वमप्यादितोऽवदत् ॥ ४८२ ॥ तादृक्षां तत्क्षमां वीक्ष्य, विस्मेरः स सुरः पुरः । भूत्वा नत्वा भणित्वा च स्ववृत्तमिदमूचिवान् ॥ ४८३ ॥ १ निजक्षयवत् २ जातुचिदातुरो, प्र..