________________
कुमार
पालच०
॥ १४९ ॥
ध्यात्वेति सा निरासे तं, यदा कम्बलवाणिजम् । तदा प्राग्भववैरीव, तस्यां द्विष्टोऽजनिष्ट सः ॥ ४५५॥ ततः स शोणितं कृष्ट्वा, तदीयाद् वपुषोऽखिलात् । कम्बलान् रञ्जयामास, कीनाश इव निष्कृपः ॥ ४५६ ॥ पुष्ट्या शोणितकृष्ट्या च, सा बभूव शनैः शनैः । कर्पासर्पूणि केवोच्चै — निःसारा पाण्डुरा कृशा ॥ ४५७ ॥ तथापि शीलं शीलम्सी, निंदन्ती च स्वकोपिताम् । सा तत्रास्थात् कुलस्त्रीणां, व्यसने हि परीक्षणम् ॥ ४५८ ॥
इतश्चज्जयिनीशस्य, दूतस्तत्रान्यदाऽऽगमत् । कृपालुर्धनपालाख्यो, ज्यायांस्तस्याः सहोदरः ॥ ४५९ ॥ तेन व्यालोक्य भनीति, विभाव्य च कथंचन । दत्त्वा यथेप्सितं द्युम्नं, साऽमोचि वणिजस्ततः ॥ ४६० ॥ तत्रार्थकार्यमाचर्य, स्वसारं सारखच्च ताम् । गृहीत्वा स समागच्छ —दुज्जयिन्यां निजालयम् ॥ ४६१ ॥ वत्से ! केयमवस्था ते, निन्द्या वंद्या इवोचकैः । इति पृष्टा सुता माता - पित्राद्यैर्बाष्पवर्षिभिः ॥ ४६२ ॥ रोदयन्ती कठोरान -प्यात्मकोपप्रकोपजाम् । अवस्थामवदत् तेषा -मग्रे सा रुदती भृशम् ॥ ४६३ ॥ कथञ्चिदपि संस्थाप्य रोदनान्निजनन्दनीम् । एवं संबोधयचक्रे, बन्धुभिः प्रेमसिन्धुभिः ॥ ४६४ ॥ ईदृक् कोपस्त्वया चक्रे, वत्से ! निष्कारणः किमु ! | लोष्टवद् येन दुःखाब्धौ त्वदात्माऽयं निवेशितः ॥ ४६५ ॥ क्व सा लक्ष्मीः क्व सा लीला, क्व तद् रूपं क्व तत् सुखम् । वनं वह्निरिवाधाक्षीत्, कोप एवा| खिलं तव ॥ ४६६ ॥ निमित्तेऽपि न कुप्यन्ति, केचित् सन्तः सहिष्णवः । अकुपस्तद् विनाऽपि त्वं, केयं तव विवेकिता ? ||४६७॥ विद्वन्मन्यास्त एव स्यु–स्ते सदा शान्तिवल्लभाः । न जाज्वलीति कोपाग्नि - येषां चेतसि कर्हिचित् ॥ ४६८ ॥ १ तिरक्षके. २ पूर्णिका, प्र. ३ खकोपताम्, प्र. ४ शीलरक्षणात्
सर्ग. ७
॥ १४९ ॥