________________
कुमारपालच०
॥ १८४ ॥
पश्य तान् ? ॥ ६७० ॥ उक्त्वेत्यस्यामदृश्यायां, निवृत्त्यावभटस्ततः । खनकान् खनतः क्षोणीं, पश्यति स्म तथैव तान् ॥ ६७१ ॥ काऽपि मायाऽद्भुता देवी', विमृशन्निति स स्वयम् । सर्वासामपि देवीनां, भोगं भूयिष्ठमातनोत् ॥ ६७२॥ तत्प्रभावाग्निना दग्धे, प्रत्यूहगर्हेने सति । अष्टादशकरोतुंगं, तचैत्यं समपद्यत ॥ ६७३ ॥ श्रीमत्सुव्रतदेवस्य, राज्ञो राश्या हयस्य च । व्याधक्षताया न्यग्रोध – ग्युतायाः शकुनेरपि ॥ ६७४ || नमस्कृतीर्ददानस्य, मुनेरपि च सत्तमाः । मूर्तीः सोऽचीकरलेप्य - मैयीश्चित्रकरैः परैः ॥ ६७५ ॥ युग्मम् ॥ अथौदयनिविज्ञप्ताः, प्रतिष्ठोत्सवहेतवे । पत्तनात् तत्पुरं प्रापु - गुरुसंघमहीभुजः ॥ ६७६ ॥ विधाय शांतिकं मंत्रः, प्रभावैरिव पिंडितैः । प्रत्यष्ठाद्धेमसूरींदु - जिनेंद्रं कूर्मलांछनम् ॥ ६७७ ॥ मल्लिकार्जुनकोशीयं, श्री चौलुक्यप्रसादितम् । कलशं विलसत्स्वर्ण - द्वात्रिंशद्घटिकामयम् ॥ ६७८ ॥ दंडं च हैमं दीप्रांशु-पट्टांशुकमयं ध्वजम् । यथाविधि प्रतिष्ठाप्य, गुरुश्रीहेमसूरिणा ॥ ६७९ ॥ स्वयमावभटः संघभूपादिपरिवारितः । तानध्यारोपयच्चैत्ये, स्वं च पुण्यवतां हृदि ॥ ६८० ॥ त्रिभिर्विशेषकम् ॥ स्थित्वा च चैत्यमूर्येव, गर्जत्यातोद्यवारिदे । नरिनति स्म केकीव, प्रमोदग्रहिलाशयः ॥ ६८१ ॥ तत्र स्थितोऽसौ वृष्ट्वोच्चैः, स्वर्णरत्नादि देववत् । रौद्र" दारिद्र्य संतापं, शमयामास कस्य न ? ॥ ६८२ ॥ निरीक्षिता पुराऽप्यासीद्, वृष्टिर्जलमयी जनैः । तदा तु ददृशे क्षौम-स्वर्णरत्नमयी पुनः || ६८३ ॥ द्वेधाऽपि भूरिभारत्वाद्, दानमावभटार्पितम् । वाहीकैर्यदि वेश्मानि प्रापयामासु
१ देवसंबंधिनी. २ बने. ३ राज्ञो - प्र. ४ सुधा ( चूना ) मयी. ५ उत्तमैः शिल्पः ६ लांछितम्, प्र० ७ द्वात्रिंशलघुघटप्रमाणम् ८ तेजोयुक्त कौशेयवस्त्रमयम्. ९ कलशदंडध्वजान् १० अतिहर्षित इत्यर्थः ११ द्र - प्र०. १२ भारवाहकै .
सर्ग. ८
॥ १८४ ॥