SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ SAROKAROSAROSASSAMSUMAR सकलं गुणोघं ॥ असंतमप्यानयति ब्रजंती । नयत्य, संतमपि क्षणेन ॥ १९९ ॥ सुखसर्वकर्ष तस्य । दारिद्यमभवत्तथा ॥ यथा भोजनमात्रेऽपि । संदेहः सर्वतोऽस्फुरत् ॥ २०॥ धनदश्रेष्ठिना सूनु-सनाथेन ततः स्वयं ॥ निधिस्थानानि सर्वाणि! चख्निरे द्रविणेप्सया ॥ २०१॥ बहिनिष्काश्य सोऽद्राक्षी-धं यं स्वर्णमयं निधि ॥ स सोऽङ्गारमयो जज्ञे । तस्याभाग्यवि जूंभितैः ॥२०२॥ अथानानो निजं वक्षः । स्फोटयन्मस्तकं तथा ॥ रुष्टाहिदष्टवत्सद्यो । मूर्छालः सोऽपतत् क्षितौ ॥२०३॥ कथंचिज्जातचैतन्यो । व्यलापीच्चेति विह्वलः ॥ हहा दैव! त्वया चक्रे । किमेतद्दारुणं मम ॥२०४ ॥ हृत्वा बहिश्चरी लक्ष्मी । मुमुदानो न किं हृदि ॥ यदंतःस्थानपि निधी-नीहक्षान् विदधे भवान् ॥ २०५॥ बहिर्धने गते मेऽन्तर्द्धनं घुपकरिष्यति ॥ मयेति या कृता बुद्धिः। सापि चक्रे त्वया वृथा ॥२०६॥ तावन्मतिः स्फुरति वल्गति शास्त्रमंतः शौंडीर्यमुल्लसति भाति महत्वमुच्चैः॥यावन्मनोरथरथप्रथिमाद्रिमार्ग। न प्रातिकूलिकतमत्वमुपैषि' दैव!॥२०७॥ यद्वा भवत्स्वभावोऽय-मस्तिमाननगारिवत् । निःस्वो भवति निःस्वस्तु । चक्रीव कमलानिधिः ॥ २०८ ॥ एवं विलप्य धैर्येण । सन्नह्य हृदयं निजं ॥ तानंगारान् बहि:शाला-कोणके क्षिपतिस्म सः ॥ २०९ ॥ ततः स धनदश्रेष्ठी । लजमानो महाजने ॥ कथंचिद् दुःखविवशान् । दिवसानत्यवाहयत् ॥ २१० ॥ सोमचंद्रयुतोऽन्येधु-वीर|चंद्रोगणिभ्रमन् ॥ तस्य वेश्माविशल्लातुं । मिक्षां भक्तुमिवापदं॥२११॥ तदा च सपरिवारो। धनदो निधनाग्रणीः॥ कष्टितोत्थितवत्पेयां । पयोरूपां पिबन्नभूत् ॥ २१२ ॥ चतुर्दिक्षु गृहं प्रेक्ष्य । तदीयं तच्च भोजनं ॥ सोमचंद्रो गणि १ मुपैति देवम्. प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy