________________
Nont
| स्याप्यस्य कीदृक्ष-महो महिम वल्गति ॥ २१०॥ चतुर्भिः कलापकं ॥ अभ्यधाद्भूधवः पश्य । तद्वयस्य ! पयः पुरा ॥18॥ व्याघ्रत्वं येन कृत्वा मे । त्वं मित्रं समगम्यथाः॥२११॥ यद्यज्ञानवशादेत-नापास्यत मया पयः॥ अलप्स्यत कथं तर्हि । त्वाद्दग्मित्रं सुदुर्लभं ॥ २१२ ॥ स प्रोचेऽन्योदकादस्य । न रूपे किंचिदंतरं ॥ शक्तिः कस्मादियं यद्वा । विचित्रा वस्तुनिर्मितिः॥ २१३ ॥ तयोर्वार्तयतोरित्थ-मुन्ममज इदात्तदा ॥ कोऽपि द्विपः पयोराशे-रैरावण इवापरः॥२१४ ॥ वारिरिव कराघातै-भूयसीलहरीदलन् ॥ शेवालावलिमाकर्षन् । पल्लग्नां श्रृंखलामिव ॥ २१५ ॥ इदमध्यात्स निर्गत्य । मायामय इव द्विपः ॥ अजासूनुं समाकृष्य । विवेश सहसांभसि ॥ २१६ ॥ युग्मं ॥ पश्यतोहरवन्मित्रं । हृत्वा हस्तिन् । क यासिरे ॥ इत्युक्त्वात्तकृपाणस्त-त्पृष्ठेऽधाविष्ट भूधवः ॥ २१७ ॥ नीरे करी पुरो याति । पृष्ठे भूपो निषादिवत् ॥ अधोऽधो ब्रजतोरेवं । तयोर्दती तिरोऽभवत् ॥ २१८ ॥ अपश्यन् काश्यपीशस्तं । सवयस्यमपि द्विपं ॥ फालच्युत इव द्वीपी। विषादपदमादधौ ॥ २१९ ॥ पश्यत्येव मयि क्वायं । जग्मिवानिति विस्मयात् ॥ पुरः सर्पन्निरैक्षिष्ट । सौधं स्वर्णमयं नृपः ॥२२०॥ चंचत्कांचननिर्यातैः । कांतिपूरैः प्रसृत्वरैः ॥ बालार्करश्मिभिरिव । पिंजरीकृतदिभुखं ॥ २२१॥ विमानमिव निघूत-रजस्कं सुमनः श्रितं ॥ दृष्ट्वा तन्मंदिरं माद्य-दिन्दिरं व्यमृशन्नपः ॥२२२॥ युग्मं ॥ व स हस्तीक तन्मित्रं । इदःकसी पयः क्व तत्? ॥ क्वेयं ? भूमंदिरं क्वैतत् ? । किमिदं ? स्वप्नसन्निभं॥२२३॥ तस्मिन् सौघे प्रविश्याथ । क्षमानाथस्तदंतरे ॥ ददर्श चंडिकां देवीं । दिव्यपूजां ननाम च ॥ २२४ ॥ दंतिना ही हृतं मित्रं । मदग्रेऽत्रायिनो मया ॥
१ पुरः, प्र. २ वारिः-गजबन्धनरज्जुः.३ व्याघ्रः.
orty