SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ द्वैतीयीकस्तु संसार- हेतुकृत्यनिबर्हणम् ॥ ४१४ ॥ कर्मणां प्रागुपात्तानां जरणं निर्जरा स्मृता । सा सकामां यतीनां स्या - दकामाऽन्यशरीरिणाम् ॥ ४१५ ॥ आदानं कर्मयोग्यानां, पुद्गलानां यदंगिनः । मिथ्यात्वादिसहायस्य, स बंधः पारतंत्र्यकृत् ॥ ४१६ ॥ प्रकृतिस्थित्यनुभाव- प्रदेशैः स चतुर्विधः । तत्र स्वभावः प्रकृति-र्ज्ञानावृत्त्यादिकर्मणाम् ॥ ४१७ ॥ जघन्योत्कर्षतः काल - नैयत्यं कर्मणां स्थितिः । तेषां रसोऽनुभावः स्यात्, प्रदेशो दलसंहतिः ॥ ४१८ ॥ मिथ्यात्वमविर - तिश्च, कषाया योगसंयुताः । एते भवंति चत्वारः, कर्मणां बंधहेतवः ॥ ४१९ ॥ निःशेषकर्मनिर्मोक्षो, मोक्षः प्रोक्तो जिनेश्वरैः । स भवत्यात्मनां नूनं, केवलज्ञानशालिनाम् ॥ ४२० ॥ अत्यंतदुःखनाशेन यदस्मिन् शाश्वतं सुखम् । आत्मनां भवतीत्येष, मोक्षः सर्वप्रियंकरः ॥ ४२१॥ सप्ततत्त्वीमिमां राजञ् !, श्रुत्वा यः श्रद्दधात्यलम् । सम्यग्दृष्टिः स भूत्वाऽन्ते, लभते तत् परं पदम् ॥ ४२२ ॥ अथ तीर्थंकरादीनां चरितं श्रोतुमिच्छता । चौलुक्येनार्थयांचक्रे, हेमाचार्योऽतिगौरवात् ॥ ४२३ ॥ ततो रसाढ्यं षट्त्रिंशत्सहस्रमितिमाँगतम् । स्थविराली चरित्रांतं, दशपवमनोरमम् ॥ ४२४ ॥ त्रिशष्टिशलाकामर्य-चरित्रं सर्वसंस्कृतम् । द्राक्षापाककवित्वेन कृत्वा स तमशिश्रवत् ॥ ४२५ ॥ युग्मम् ॥ अन्यानपि प्रभुर्योग - शास्त्रादीञ् ज्ञानदीपकान् । ग्रंथांस्तदर्थितश्चक्रे, वीतरागस्तवानपि ॥ ४२६ ॥ योगशास्त्रं यतिश्राद्ध-जनाचारातिमेदुरम् । पठित्वा गुरुणा तेन, सम्यग् व्याख्यापयन्नृपः ॥४२७॥ एवं सैद्धांतिकं सारं, शृण्वानः स प्रपन्नवान् । बिरुदं चारु विचार- चतुर्मुख इति क्षितौ ॥ ४२८ ॥ १ नाशनम्. २ योगशास्त्रापेक्षयेदम्, विशेषतः सकामाकाम निर्जरायाः खरूपं उ० यशोविजय विरचितध में परीक्षा ( पृष्ठ. १२२) तो शेयम्. ३ मानं प्राप्तम् ४ पुरुष ०.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy