SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ तत्ख्यातं मेरुनामवत् ॥ ४०८ ॥ आवासान् सरसीवाप्या - रामांश्चातिमनोरमान् । विधाप्य स महीजानि - र्निजं राज्यमतिष्ठित् ॥ ४०९ ॥ चतुर्दशशती कोटी - ध्वजावासास्तदाऽभवन् । उपरिष्टादधस्ताच्च, लक्षनाथाः सहस्रशः ॥ ४१० ॥ चित्रकूटश्रियं दृष्ट्वा तदा सर्वर्द्धिवर्धिनीम् । स्वर्गलुंटाकतां को न दध्यौ चित्रांगदे नृपे ? ॥ ४११ ॥ अन्येद्युः कन्यकुनेशः, शक्तिकुलितशात्रवः । शंभलीशाभिधोऽश्रौषीत्, स्वर्णमर्त्यकथां जनात् ॥ ४१२ ॥ ततश्चित्रांगदात्स्वर्ण - पुरुषादित्सयोत्सुकः । शंभलीशो निजस्थाना—दभिषेणयति स्म तं ॥ ४१३ ॥ समुद्रैरिव कल्पांत-भ्रांतैः प्रौढबलैर्बलैः । प्लावयन् क्ष्मातलं सोऽस्था - चित्रकूटगिरेरधः ॥ ४१४ ॥ दृष्ट्वाऽपि कन्यकुनेश - मधःस्थं सैन्यसागरम् । दिविष्ठ इव दुर्गस्थः, सुखं चित्रांगदः स्थितः ॥ ४१५ ॥ चित्रकूटस्थिता लोका, अपि शोकापवर्जिताः । परिचिक्रीडिरे स्वैरं, विमानस्था इवामरा: ॥ ४१६ ॥ अथा भटाः कन्य – कुब्नेशादेशलेशतः । खंडिं पातयितुं दुर्गे, लग्ना मत्तद्विपेंद्रवत् ॥ ४१७ ॥ ते टंकैरुत्किरंतोऽपि, दलंतोऽप्यश्मगोलकैः । तद्वज्रनिर्मितमिव न भक्तुं प्राभवन् क्वचित् ॥ ४१८ ॥ अनिर्वेदः श्रियो मूलमिति नीतिं विदंस्ततः । रोधयित्वोद्धतैर्योधै— दुर्ग तस्थौ स शत्रुराट् ॥ ४१९ ॥ गते घनतैरे काले, प्रहिताः शत्रुभूभुजा । दुर्गस्वरूपं विज्ञातुं, चराश्चतुरतांचिताः ॥ ४२० ॥ ते दुर्गमध्यमाविश्य, स्वर्गस्येवातिशायिनीम् । विष्वे॑द्रीचीं श्रियं तस्य, पश्यंतो विस्मिता हृदि ॥ ४२१ ॥ इतस्ततो भ्रमंतस्ते, द्विषद्भेदविधित्सया । सुमतेमंत्रिणः प्रापु-मंदिरं स्फुरदिंदिरम् ॥ ४२२ ॥ तदा च स्वगवाक्षस्थं, तातं सुमतिमंत्रिणम् । पुत्री रत्नवती प्राप सपुत्रा प्रणिनंसया ॥ ४२३ ॥ नत्वा पितर१ दुर्गम्. २ अखेदः - खेदाभावः ३ षोडशवर्षरूपे ४ सर्वदिग्व्यापिनीम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy