SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥ ५९ ॥ मूर्ध्वस्था, दुर्गाधःस्थं द्विषद्वलम् । पश्यंती तेषु शृण्वत्सु, चरेष्वाचष्ट सा ( स ) ऋजुः ॥ ४२४ ॥ दुर्गस्याधः स्थितास्तात !, कुतोऽमी व्यवहारिणः । अद्यापि न प्रहीयंते, कालोऽमीषां महान् गतः ॥ ४२५ ॥ स्मेरः स्माह स तां मंत्री, नैवामी व्यवहारिणः । किंत्वसौ कन्यकुनेशो, दुर्गं रुद्धा बलैः स्थितः ॥ ४२६ ॥ त्वज्जन्मदिवसेऽत्रैत्य, तिष्ठत्यस्मिन्महीश्वरे । त्वं पर्यणीयथाः पुत्रि !, पुत्रवत्यप्यजायथाः ॥ ४२७ ॥ तन्निशम्वातिविस्मेरा, दुर्गादुत्तीर्य ते चराः । तां मंत्रितनयावार्ता, | स्वनृपाय न्यवेदयन् ॥ ४२८ ॥ हर्षचित्रविषादादि - श्लिष्टः सोऽपि द्विषत्पतिः । ईदृग्दुर्गं कथं ग्राह्य – मिति चिंतां चिरं व्यधात् ॥ ४२९ ॥ अन्यदा दुर्गपार्श्वस्थं, कन्यकुजेश्वरं जगौ । चित्रांगदस्य मान्योच्चै - वैश्या बर्बरिकाह्वया ॥ ४३० ॥ आरोहत्यचलेश्वरं किमु शिशुः ? पोतोज्झितः किं तर - त्यंभोधिं ? किमु कातरः सरभसं संग्राममाक्रामति । शक्येष्वेव तनोति वस्तुषु जनः प्रायः स्वकीयश्रमं तद् दुर्गग्रहणग्रहे ग्रहिलतां त्वं शंभलीश ! त्यज ॥ ४३१ ॥ वेश्यावाक्येन तेनांतः, खिन्नः प्रत्यर्थिपार्थिवः । मर्माविधांकुशेनेव, विद्धो हस्तीव मम्लिवान् ॥ ४३२ ॥ ततोऽरिभूभृता सैव, भिन्ना बर्बरिका धनैः । जगौ दुर्गग्रहोपाय - मित्येकांते सुमित्रवत् ॥ ४३३ ॥ अयं नृपः सदोद्घाट्य, द्वाराणि निखिलान्यपि । क्षुधार्तान् प्रीणयित्वैव, भुंक्ते धर्मतनूजवत् ॥ ४३४ ॥ गवाक्षस्था यदा केशान् विवृणोमि तदा त्वया । द्वारोद्घाटं परिज्ञाय, प्रवेष्टव्यं झटित्यपि ॥ ४३५ ॥ ततो वैश्योदितोपायाद्, दुर्गे दुर्गतवेश्मवत् । शंभलीशोऽविशत्तूर्ण - मुद्धतैः सह सैनिकैः ॥ ४३६ ॥ चित्रांगदोऽभ्यमित्रीणो भूत्वा तेन द्विषा समम् । शराशरि चिरं युद्धं विदधे शक्रविक्रमः ॥ ४३७ ॥ शंभ१ज्ञा, प्र. २ शत्रुराजः ३ युधिष्ठिरवत् ४ अमित्रं अभिगच्छतीति अभ्यमित्रीणः ईदृग् चित्रांगदो भूत्वा. सर्ग. ३ ॥ ५९ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy