________________
कुमारपालच०
॥ १७८ ॥
न्यखनद् बाणं, स्वविक्रममिवोच्चकैः ॥ ५०५ ॥ तत्प्रहारक्षरद्रक्तः, सोऽपि राजानको रुषा । मंत्रिणं ताडयामास, भाले तीक्ष्णेन पत्रिणा ॥ ५०६ ॥ रणे तौ रेजतुः शस्त्र-क्षतक्षरदसृग्भरौ । सगैरिकझरोद्गारौ वर्षत पर्वताविव ॥ ५०७ ॥ द्वयोरंतर्जयः कस्येत्येवं चिंतापरे जने । शितेषु गार्द्धपक्षेषु, निपतत्सु निरंतरम् ॥ ५०८ ॥ प्रहारजर्जरांगोऽपि, मंत्रीशो हस्तलाघवात् । मर्मण्याहत्य बाणेन, द्विषं तमवधीद् युधि ॥ ५०९ ॥ युग्मम् ॥ बभूवोदयनानीके, जितं जितमिति ध्वनिः । स्फुरन्नूपुरझंकार, इवायांत्या जयश्रियः ॥ ५१० ॥ कीर्त्त्या सह द्विषलक्ष्मीं समादाय तदंगजम्। तत्पदे न्यस्य मंत्रदुः, स्कंधावारोन्मुखोऽभवत् ॥ ५११ ॥ अरुंतुदप्रहारोद्य-द्वेदनामीलितेक्षणः । अज्ञातुमिव तद्दुःखं, मूर्च्छामानच्र्छ सोऽध्वनि ॥ ५१२ ॥ पवनाद्युपचारेण, कृच्छ्रात् प्रापय्य चेतनाम् । तमुत्पाट्य च तद्भृत्या, निन्यिरे शिबिरांतरम् ॥ ५१३॥ तत्र स्रस्तरविन्यस्त - देहः स्नेहपरैर्जनैः । सभ्यक्शुश्रूष्यमाणोऽपि, चक्रंद सचिवो मुहुः ॥ ५१४ ॥ ततस्तं प्रश्नयामासुर्नेदिष्ठा मंडलाधिपाः । करुणं कारणात् कस्मा- दद्यैवं ऋद्यते प्रभो ! ॥ ५१५ ॥ पुराऽपि चक्रिरेऽनेके, वैरिविद्रावणा रणाः । प्रहारा अपि लग्नास्ते, वीरश्रीमंडनोपमाः ॥ ५१६ ॥ परं नैवाधृतिर्दधे, महीघ्र स्थिर ! कर्हिचित् । तस्माच्छल्यं यदंतस्ते, तत् प्रसद्य निगद्यताम् ? ॥ ५१७ ॥ अधोदयनमंत्री तान्, निजगाद सगद्गदम् । व्यर्थते नैव मामेते, घाता दुर्विषहा अपि ॥ ५१८ ॥ ये स्वामिशासनात् प्राणां स्तृणयंति रणानले । तेषां वीरावतंसानां, प्रहाराः सुखभक्षिकाः ॥ ५१९ ॥ किंतु पूर्व प्रतिज्ञाता, मया नियमपूर्वकम् । शत्रुंजयस्य शकुनी — चैत्यस्य च समुद्धृतिः ॥ ५२० ॥ अद्यैवं मरणे प्राप्ते,
१ बाणे. २ तद्दुःख-प्र. ३ प्राप. ४ नाशकाः ५ त्रया-इति शेषः ६ भरणं प्र.
सर्ग.
॥ १७८ ॥