SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ CACHEOSTOSOS भट्टा इवतुराजस्य । वदंतो बिरुदावलिम् ॥४३२॥ वियुक्तवनितास्वांते । वसंतं विरहानलम् ॥संधुक्षितुमिवामंदं । ववौ मलयमारुतः॥४३३ ॥ चलैदलैः सनृत्येव । सस्मितेव सुमैर्वनी । संगीतेवालिसंरावै-तुपत्यागमेऽस्फुरत् ॥ ४३४॥ विश्वग्वनानि ससुमान्यलिनोऽतिमत्ता-स्ताक्षणाः कलरवाः पवनः सुगंधिः ॥ शीतांशुरुज्ज्वलरुचिर्मदनः सतेजाः । प्राप्ते वसंतसमये न कथं प्रमोदः ॥ ४३५ ॥ कल्पितानल्पनेपथ्य-स्तदा पौरजनोऽखिलः ॥ जगामाराममुद्दाम । वसंतोत्सव-31 हेतवे ॥४३६ ॥ ते निवस्यांशुके दिव्ये । प्रेयसीभिः परिष्कृतः॥ श्रीविक्रममहींद्रोऽपि । प्रापारामं रिरंसया ॥ ४३७॥ बहुबुद्धितनूजोऽपि । संज्ञया मतिसागरः॥ अजाभूहारसश्रीको । दैवात्तत्रैव जग्मिवान् ॥ ४३८ ॥ तं हारं नृपतिस्तस्य । | कंठे दृष्ट्वोपलक्ष्य च ॥ आकारयत् स्वपुरुषैः। परुषैर्मतिसागरम् ॥४३९॥ अपृच्छच्च कुतस्तेऽयं । हारः स्फाररुचिर्वद?॥अब्रुवन्नुहत्तरं सोऽपि । मूकवन्मौनमानशे ॥ ४४० ॥ बवा दृढं नृपभटैः । कुट्टितो यष्टिमुष्टिभिः ॥ रक्कं वमन स भूपीठे । लुलोठी गतजीववत् ॥ ४४१॥ हारव्यतिकरं श्रुत्वा । बहुबुद्धिः सुबुद्धिभाक् ॥ अजापुत्रं गृहीत्वैव । नृपपार्श्वमशिश्रियत् ॥४४२॥ कस्यायमिति च पृष्टः । सन्नाचष्ट महीपते । ॥ हारोऽस्त्यजासुतस्यास्य । कस्मान्मम सुतो हतः॥४४३ ॥ विमोच्य || दाश्रेष्ठिनः पुत्रं । भूपोऽजांगजमूचिवान् ॥ किमचोरि त्वया हारः? । माहाऽऽमेति स कौतुकात् ॥ ४४४ ॥ अरेरे हन्यतामेष । मेषवत्तस्करो भटाः!॥ इत्यादिष्टे नृपेणोचे । स देव ! शृणु मद्वचः॥४४५॥ परवस्त्वपहर्ता यः। स वध्यो भवतां नयः॥ अयं विलेख्यतां पत्रे । स्तेनोऽस्त्यन्योऽपि यन्ननु ॥४४६॥ तदाशयापरिज्ञाना-द्राज्ञाऽस्मिन् लेखिते १ कोकिलाः. २ मि. प्र. ३ मदतिरिक्तस्त्वमपि इतिभावः SOCIOCX 5.पा.च.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy