SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सर्ग.९ कुमार ॥२५९॥ परमाहतभावेन, राज्ञः शासनदेवता । विदधे तत्र सांनिध्यं, तस्यास्तदुचितं खलु ॥ २६० ॥ खन्यमाने स्थले पालच० तत्र, धात्रीसूत्रामपुण्यतः । प्रतिमा प्रकटा जज्ञे, स्थापितेव स्वयं पुरा ॥ २६१॥ उदायनेन यद् दत्तं, प्रतिमाऽर्चनहेतवे । ग्रामाणां शासनमयं, पत्रं तदपि निर्गतम् ॥ २६२ ॥ तद्दर्शनात् प्रमुदिता, नृपाऽऽयुक्ता यथाविधि । तामर्चित्वा रथो॥१९७॥ |त्संग-मुत्सवेनाध्यरोपैयन् ॥ २६३ ॥ उद्दामसहजामोद-वनाकृष्टशिलीमुखाम् । वीज्यमानां च पूर्णेदु-सुंदरैश्चामरोहत्करैः॥२६४ ॥ पूज्यमानां प्रतिग्राम, भविकैः पुण्यलोलुपैः । प्रतिमां तां समानिन्यु-र्जनास्ते पत्तनांतिकम् ॥ २६५॥ युग्मम् ॥ ततो गुरुं पुरस्कृत्य, प्रमोदमिव देहिनम् । तत्संमुखं ययौ भूपः, सर्वसंघसमन्वितः ॥२६६ ॥ प्रीतस्तद्वीक्षणात् साक्षात्, श्रीवीरप्रेक्षणादिव । अभ्यर्च्य कुसुमैहेमै–श्चैत्यवंदनमादधे ॥२६७ ॥ रथात् तां स्वयमुत्तार्य, करींद्रमधिरोप्य च । पुण्यलक्ष्मीमिवात्मीयां, मध्येसौधं समानयत् ॥ २६८ ॥ अंतःक्रीडालयं चैत्यं, विधाप्य स्फाटिकं नवम् । तत्र तां पूजयामास, त्रिसंध्यं भूमिवासवः॥२६९ ॥ तत्प्रभावेण तस्यर्द्धि-रवर्धिष्ट दिने दिने। चंद्रोदयेन वेलाऽब्धे-वर्धते किं कुतूहलम् ॥ २७ ॥ प्रतिमां तां नमस्कर्तु, पुंडरीकादितीर्थवत् । समापतन् परोलक्षा, दवीयांसोऽपि धार्मिकाः ॥२७॥ तस्याः शासनपत्रं तद्, दृष्ट्वा गृजेरनायकः । उदायनप्रदत्तांस्तान , ग्रामान् भोगकृते ददौ ॥ २७२॥ हेमसूरिरुपादिक्षत् , तस्मै धर्मात्मनेऽन्यदा। शत्रुजयादितीर्थानां, यात्राफलमिति स्फुटम् ॥ २७३ ॥ ध्याने पल्यसहस्रसंभवमघं प्रक्षीयतेऽभिग्रहे, तल्लक्षोत्थमनेकसागरकृतं मार्गे समुल्लंघिते। तीर्थस्याश्रयणेऽभ्युपैति सुगतिर्देवाऽऽनना| १ शासनदेवतायाः. २ सान्निध्यकरणम्. ३ भूवासव० कुमारपाल०. ४ आज्ञामयम्. ५ अध्यारूरुपत्, प्र. ६ शान्तिगृहमध्ये. ७ पूजाये. ८ तीर्थस्य यात्राया ध्याने.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy