SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सर्ग.३ तस्तवनांतरे । कृशानी हो, पार्थिव ! त्यामतोमागदोऽतिदाक्षिण्या मानो नृप कुमार साधकः ॥ ३६२ ॥ विदघे तस्य षण्मासी, पूर्वसेवा यथाविधि । अधुना तव साहाय्या-द्विधित्साम्युत्तरक्रियाम् ॥३६॥ पालच० सा च कृष्णचतुर्दश्यां, निशि प्रेतवनांतरे । कृशानी होमनिर्माणात् , सिद्धिमभ्येति नान्यथा ॥ ३६४ ॥ सत्त्वोपकारदाक्षि टूण्य-शौर्यादिगुणशालिनाम् । अधुना त्वं धुरीणोऽसि, पार्थिव ! त्वामतोऽर्थये ॥३६५॥ धृत्वा कृपालुतां चेत्त्वं, भवस्यु॥५७॥ त्तरसाधकः । त्वत्साहाय्यात्तदा मंत्रः, फलवान् मम जायते ॥ ३६६॥ चित्रांगदोऽतिदाक्षिण्या-दोमित्यंगीचकार तत् । परोपकारमाधातुं, व्यसनं हि महात्मनाम् ॥ ३६७ ॥ तत्कथंचित्परिज्ञाय, मंत्री स्वमतिवैभवात् । शंकमानो नृपापायं, तं जगौ विजने स्थितम् ॥ ३६८ ॥ देवो यद्यपि वेत्त्येव, देववत्सकलं स्वयम् । तथापि प्रोच्यते किंचि-स्नेहाकुलतया मया ॥ ३६९ ॥ योगिने प्रतिपेदे यत्, साहाय्यं न्याय्यमप्यदः । आयतौ नैव पश्यामि, श्रेयसे ते स्वबुद्धितः ॥ ३७० ॥ कायदमी योगिनो दुष्टाः, स्वेष्टसिद्धिविधित्सया । पिशाचा इव हिंसंति, वंचयित्वोत्तमान्नरान् ॥ ३७१॥ किंच निष्करुणा: कामं, धूमोर्णारमणादपि । न जंतुघातजाताघात्, वधका इव बिभ्यति ॥३७२॥ अयं च याचते स्म त्वां, स्वर्णपूरुषसिद्धये । सा तु स्याद्यदि हूयेत, द्वात्रिंशल्लक्षणः पुमान् ॥ ३७३ ॥ तत्त्वां सुलक्षणं प्रेक्ष्य, विदधीतैष दुष्टधीः। अनिष्टं कर्हिचित्तेन, वारयाम्यहमादरात् ॥३७४॥ बभाषे भूभृदज्ञाना-दंगीचक्रेऽस्य गीर्मया । करोमि तां कथंकारं ?, नीचवत् स्वयमन्यथा ॥ ३७५ ॥ मंत्री जगाद यद्येवं, तोहं भवता सह । अंगरक्षवदेष्यामि, छन्नः कुर्वे यथोचितम् ॥ ३७६ ॥राज्ञि तत्प्रतिपेदाने, कृष्णे चातुर्दशेऽहनि । पूजोपकरणान्वितो, भूतानंदस्तमभ्यगात् ॥ ३७७ ॥ चित्रांगदः समं तेन, कृपाणं पाणिना १ षण्मासी यावतू. २ पूर्वक्रियाम्. ३ धूमोर्णा-यमपत्नी, तस्याः रमणः-पतिः-यमस्तस्मादपि. तिपेदे या कायद्यपि वेत्त्येव, देवकथाचित्परिज्ञाय, गोऽतिदाक्षिण्य SRSRSRSRSRSRESAS ॥ ५७
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy