________________
AttrrHRRY
वहन । प्रतिष्ठते स्म तत्पृष्ठे, श्रेष्ठधीः सचिवोऽपि सः॥ ३७८ ॥ भयंकरं श्मशानं स, प्राप्य निर्भयमानसः। अखंडं हतभकंड, मंडयामास मंडले ॥ ३७९ ॥ निवेश्य ज्वलनं तत्र, खादिरैः शकलैर्धनैः । स्वयं स्वमिव निर्दग्धं, ज्वालयामास योगिराट् ॥ ३८० ॥ जिघत्सुरिव तं दुष्टं, जज्ञे ज्वालावलिच्छलात् । हुताशः सप्तजिह्वोऽपि, तदा जिह्वाशताकुलः॥३८१॥ अभ्यर्च्य मंडलं सम्यग् , रक्तपुष्पाक्षतादिभिः। मंत्रं स्मर्तु समारेभे, योगी ध्यानैकतानहृत् ॥ ३८२॥ कृपाणपाणिभूपोऽपि, पराक्रम इवांगवान् । अकुतोभयचित्तः सं-स्तद्रक्षाप्रवणोऽभवत् ॥ ३८३ ॥ पृष्ठरक्षकवत्पृष्ठे, राज्ञः प्राज्ञशिरोमणिः। अमात्योऽप्यवधानेन योगिकृत्यं व्यलोकत ॥ ३८४ ॥ जपं मंत्रस्य होमं च, विरचय्य यथाविधि । त्रिःप्रदक्षिणयामास, वह्निकुंडं स योगभृत् ॥ ३८५॥ ततो योगी जगौ दुष्टः, मापं क्षेप्तुं हविर्भुजि । त्रिःप्रदक्षिणयार्चिष्म-कुंडं देव ! त्वमप्यदः ॥३८६॥ यथा मद्वत्तवापि स्यात्, सिद्धिः काचित्करस्थिता । भजेक्लेशोऽपि साफल्य-मसौ सद्व्यवसायवत् ॥३८७॥
वाचा तयैव विज्ञाय, तस्यारेरिव दुष्टताम् । स्मृत्वा च मंत्रिणः शिक्षा, चित्रांगदनृपोऽवदत् ॥३८८॥ असौ सिद्धिस्तवैवास्तु, दकिं तया कृत्यमस्ति मे? । सफलश्च ममायास-स्त्वदीप्सितविधानतः॥३८९॥ आचचक्षे स रक्ताक्षो, भूत्वा रे त्वं न मद्वचः।
कुरुषे किं ? रुषेदानी-मेव त्वां भस्मयाम्यहम् ॥३९०॥ इति ब्रुवंतमेवामुं, योगिनं दारुखंडवत् । उत्पाव्य चिक्षिपे वह्नि| कुंडे सुमतिमंत्रिराट् ॥ ३९१॥ स तत्र क्षिप्तमात्रोऽपि, भूत्वा द्रागेव भस्मसात् । सुवर्णपुरुषो जज्ञे, मांत्रो हि महिमाद्भुतः ॥ ३९२ ॥ योगिनाऽध्यायि यद्भूपे, तत्तस्यैव हहाऽभवत् । यद्वा यचिंत्यतेऽन्यस्य, तत्स्वस्यैव भवत्यहो ॥ ३९३ ॥ वह्नि
१ योगिनम्. २ एकाप्रतया-सावधानतया.
CROGRASSASSESASSICALSEX