SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ RSS ॥ अथ चतुर्थः सर्गः॥ अथ पाइगुण्यवित् सिद्ध-शक्तिसिद्धयुदयत्रयः । कुमारपालो भूपालः, कामयामास दिग्जयम् ॥१॥ स्वस्योपचयमालोक्य, परेषामितरं पुनः । राज्ञा जिगीषुणा भाव्यं नीतिरीतिरितीयंती ॥२॥ ततः श्रेष्ठग्रहे लग्ने, सप्तश्रीभिरिव स्वयम्। स्वगोत्रवृद्धनारीभिः, कृतप्रस्थानमंगलः ॥ ३ ॥ पिंडीकृतं यश इव, छत्रं बिभ्रत्सितद्युति । मूर्तिमंतं जयमिवा-ध्यारूढः। प्रौढसिंधुरम् ॥ ४॥ वंदिवृंदसमुत्कीर्त्य-कीर्तिकल्लोलकेलिभिः । वाचालीकृतदिग्चक्रः, प्रतस्थे दिग्जयाय सः॥५॥ त्रिभिर्विशेषकम् ॥ स्वर्णभूषणदंभेन, वपुष्मद्भिरिवाभितः। तेजःस्तोमैः समाक्रांताः, सामंतास्तस्य निर्ययुः॥६॥ प्रक्षरप्रस्फुरत्पक्षाः, प्रसरन्मदनिर्झराः। जंगमक्ष्माधराकारा, द्विरदेंद्राः प्रतस्थिरे ॥७॥ ताा इवान्यरूपेण, समीरा इव चाक्षुषाः । चेलुश्चलाचलायांहि-दत्तरंगास्तुरंगमाः॥८॥ सौवर्णध्वजदंडोद्य-कांतिचंडतडिजुषः । निरुद्धवर्त्मव्योमानः, प्रातिष्ठंत रथांबुदाः ॥९॥ अनेकरूपतां प्राप्ता, मूर्ता वीररसा इव । खड्गव्यग्रकरोदग्राः, पत्तयो निरयासिषुः ॥१०॥ युद्धश्राद्धतया योधाः, पारवश्येन सेवकाः। रसिका प्रेक्षकत्वेन, लुटाका लुटनेच्छया ॥११॥ निर्धनाः कर्मक षट्गुणाः-राज्ञा राज्यरक्षणे उपायाः षट्-ते एव पाइगुण्यं, यदुक्तं-पाइगुण्यमिति यत्प्रोक्तं, तन्निबोध युधिष्ठिर ! । संधायासनमित्येव, यात्रासन्धानमेव च, ॥१॥ विगृह्यासनमित्येव, यात्रा संपरिगृह्य च । द्वैधीभावस्तथाऽन्येषां, संश्रयोऽथ परस्य च ॥२॥ संधायासनं-संधि कृत्वाऽवस्थितिः १,यात्रासंधानं-यानं युद्धाय २, विगृह्यासन-वैरं कृत्वाऽवस्थानम् ३, यात्रा संपरिगृह्मासनं-शत्रोर्भयप्रदर्शनार्थ यानं प्रदय स्वस्थानेजस्थानम् ४, द्वेधीभावः-उभयत्रसंधिकरणम् ५, परस्यान्यस्याश्रयो दुर्गादेमहाराजस्य वा ६.२ ईयत्प्रमाणा, ३ सप्तांगराज्यलक्ष्मीमिरिव, सत्यश्रीमिः, प्र.४ युद्धाय श्राद्ध-श्रद्धा तद्भावस्तता तया 54RECCACAUSA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy