SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥ ६४ ॥ निःस्पृहस्येव वीक्ष्य तत् । कुमारपालो विस्मेर - स्तमूचे विनयांचितः ॥ ५७१ ॥ भवदुक्तं करिष्येऽहं सर्वमेव शनैः शनैः । कामयेऽहं परं संगं, निधेरिव तव प्रभो ! ॥ ५७२ ॥ भवत्संगाद्यथा किंचि - त्तत्त्वं बुध्ये स्वचेतसि । सत्संग एव यत्तत्त्वप्राप्तावौपयिकं विदुः ॥ ५७३ ॥ तदुरीकृत्य सूरीशो, यथासमयमेत्य च । क्षमाभुजे समाचख्यौ धर्ममर्मांतरांतरा ॥ ५७४ ॥ निर्मली भवितुं लग्नो, जलाशय इवाशयः । नृपतेर्गुरुवाग्भंगी कतकक्षोदयोगतः || ५७५ || रक्षाऽऽयव्ययचिंतनं १ पुरजनान्वीक्षा २ सुराचऽशने ३, कोशान्वेषण ४ मन्यनीवृतिचरप्रेषो ५ यथेच्छं भ्रमिः ६ । हस्त्यश्वादिशरासनादिरचना ७ जेतव्यचिंता समं, सेनान्येति ८ कृतिः क्रमेण नृपतेर्घस्रस्य भागाष्टके ॥ ५७६ ॥ एकांते परमाप्तवाक् श्रुति १ रति: प्रौढार्थशास्त्रस्मृति २- स्तूर्यध्वानपुरस्सरं च शयनं ३ निद्रा च भागद्वये ४-५ । बुद्धा वाद्यरवैरशेषकरणेध्यानानि मंत्रस्थिति ७ - विप्राशीर्भिषगादिदर्शन ८ मिति स्याद्रात्रिभागाष्टके ॥ ५७७ ॥ इति राजनीतिगदितां यशस्करीं, स्थितिमाश्रयन्नवहितो दिवानिशम् । स चुलुक्यवंशतिलको नरेश्वरो निजवेश्मवत् क्षितितलं समन्वशात् ॥ ५७८ ॥ त्रयाणां सर्गाणां मीलने ॥ १८७७ ॥ ६ ॥ इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाईत श्रीकुमारपालभूपालचरिते महाकाव्ये कुमारपालहिंडिराज्याप्तिवर्णनो नाम तृतीयः सर्गः ॥ १ उपायः २ जानन्ति ३ प्रेक्षणम्. ४ क्रिया करणम् ५ कर्तव्यचिन्तनानि. ६ मंत्रिप्रभृतिभिर्गुप्तविचारः ७ सावधानः, सर्ग. ३ ॥ ६४ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy