SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ कौक्षेयकोऽयं तव ॥ १४१ ॥ ( शार्दूलं) कौमुद्यस्तमदेव देव ! मलिनच्छायेव मुक्तावली, साशंकेव शशांकशेखरतनुर्मन्देव मंदाकिनी । क्षौमं क्षाममिव प्रहीणमहिमेवोच्चै हिमानीगिरिः, श्यामश्रीरिव कैरवाकरवनी त्वत्कीर्तिकांतेः पुरः ॥ १४२॥ ( शार्दूल०) विसृज्य भूपेसामंतान्, सहायातान् कुमारराट् । सुभगंकरणी राज्य- श्रियं शक्र इवाभुनक् ॥ १४३ ॥ पार्थिवः स पुमर्थेषु, चतुर्ष्वयति साधुषु । मित्रेष्विवानुवर्तिष्णुः, नाऽवामन्यत कंचन ॥ १४४ ॥ श्रीहेमसूरि संसर्गाद्, धर्मरंगो दिने दिने । तस्य चेतस्यवर्धिष्ट, वारिसेकादिवांकुरः ॥ १४५ ॥ प्रभुत्वशक्तिसारण्या, तथा न्यायतरुं नृपः । सेसिच्यामास लक्ष्मीभियथा पंफुल्यते स्म सः ॥ १४६ ॥ चौराः परस्वव्यावृत्ता-स्तद्राज्ये साधवोऽभवन् । साधवस्त्वतिसाधुत्वं, सुखमायामिवाश्रयन् ॥ १४७ ॥ अन्यायिनो निगृह्णतं दृष्ट्वा चौलुक्यभूभुजम् । अन्यायो नेशिवानात्म-स्थानभ्रंशादिव ध्रुवम् ॥ १४८ ॥ तस्य कल्पद्रुमस्येव, प्रसादात् श्रीमये जने । अनाप्नुवदिव स्थानं, दारिद्र्यं क्वचिदद्रुवत् ॥ १४९ ॥ इतः शाकंभरीपुर्या, चौलुक्यभगिनीपतिः । भूजानिस्तनुते राज्य - मर्णोराजोऽरिदुर्जयः ॥ १५० ॥ देवलदेव्या चौलुक्य - भगिन्या सह सोऽनिशम् । शच्या यथा शचीनाथो, भोगान् भुंक्तेऽतिनिर्भरान् ॥ १५१ ॥ तौ दंपती मिथः प्रीतौ, रतिकामाविवोच्चकैः । सारिद्यूतमनुस्यूत- मारेभाते मुदाऽन्यदा ।। १५२ ॥ द्वेत्रि के द्वेचतुष्के च, द्विपञ्चेत्यभिलापिनी । तयोः क्रीडा गतव्रीडा, सख्योरिव समैधत ॥ १५३॥ सारा विरेजिरे द्यूते, कामिवत्केऽपि रागिणः । परे च पापिवत्केऽपि, कृष्णभावविभाविनः ॥ १५४॥ भूपाच ते सामंताच तान् २ पुनः पुनरतिशयेन वा फलति स्म ३ परधननिवृत्ताः ४ सुषमायां, प्र. ५ अक्ष ( पाशकादिगुटिका ) ६ सतत संबद्धम् ७ द्वि-प्र. * अस्तमदा इव इति छेदः १ द्यूतम् ( सोगठावाजी इति भाषा )
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy