SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ६३८ तेन त्रिशलवगलिताविव । वर्णोऽभ्यीवभाव, भवतीति नामी. न्याय्या घातयितुं किल । देवता हि दयागृह्या लोके शास्त्रे च विश्रुताः॥ ६३४ ॥ ये स्वयं घातकास्तेऽपि, योग्या वारयितुं तव । ये तु त्यक्तवधास्तैस्तं, न कारयितुमर्हसि ॥ ६३५ ॥ दयाजीवातवः संतः, कुर्युर्जीववधं यदि । तदा प्रकाशकाः पूष्णः, पुष्णीयुस्तिमिरं कराः॥ ६३६ ॥ कर्पूरादिमयो भोग-स्तव चक्रे मयोचितः। जीवान्तेऽपि न जीवान्त-स्तन्यते देवि ! निश्चिनु ॥ ६३७ ॥ वदन्तमिति भूकान्तं, कुपिता कुलदेवता । मूर्ध्नि हत्वा त्रिशूलेन, दुर्दशेव तिरोऽभवत् ॥ ६३८ तेन त्रिशूलघातेन, तत्क्षणं क्षितिपोऽजनि । सर्वाङ्गीणस्फुरत्कुष्ठो दैव्यो हि विषमा रुषः॥ ६३९ ॥ नासाऽऽसीच्चिपटेवाऽऽस्तां,कौँ विगलिताविव । गलन्ति स्मेव चाङ्गल्यः, करजा अपि भूपतेः॥६४०॥ स्फुटितस्फोटवत् पूर्य, तस्य गात्रमसुखुवत् । जम्बालजालवत् कालो, वर्णोऽभ्यर्णीबभूवच ॥६४१॥दृष्ट्वा तत् तादृशं कुष्ठं,भूभुग वैराग्यमागमत् । संसारे स्वशरीरे च, नाहधर्मे मनागपि ॥६४२॥ स्वकर्मनिर्मितं सर्व, भवतीति विचिंतयन् । कुलदेव्यामपि द्वेष, न पुपोष महामतिः॥ ६४३॥ अथोदयनमाकार्य, मंत्रिणं मेदिनीपतिः । देवीव्यतिकरं सर्व-मुक्त्वा स्वाङ्गमदीदृशत् ॥ ६४४ ॥ मंत्री तद् दर्शनादेव, दूयते स्मतमा हृदि । महतां व्यसनं कस्य, न स्याद् दुःखाकरं खलु ॥६४५॥ भूपस्तमूचिवान् कुष्ठं, न मां दंदह्यते तथा । यथा मत्कारणं जैन-धर्मेऽस्मि लाञ्छनं नवम् ॥ ६४६ ॥ विज्ञायैतद् वदिष्यन्ति, यदमी पारतीर्थिकाः । अहो राज्ञः फलं कुष्ठं, जज्ञेऽर्हद्धर्मसेवनात् ॥ ६४७॥ यः शैवं धर्ममुत्सृज्य, जैन धर्म प्रपद्यते । कुमार-18 नृपवत् कष्ट-पात्रं सोऽत्रापि जायते ॥ ६४८॥ अस्मदैवतसूर्यादि-स्तुत्या कुष्ठादयो रुजः। प्रलीयंतेतमामह-त्सेवया । " दयापक्षाश्रिताः, २ निश्चयं कुरु !-निर्धारय !, ३देव्या इमाः दैव्यः, ४प्रकटीबभूव,५च,प्र, ६ स शब्दादू 'अतिशायिने इति तमप् ततः किमेत्तिडव्यय० इति आमुः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy