SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ECAUSAHASRANAGAR धर्म-स्नेहपाशनियंत्रणात् ॥५७७॥ ततो यत् किंचन द्रव्यं, वयं भावेन दद्महे । तीर्थे तदस्मिन् विन्यस्य, प्रार्थितं नः कृतार्थय ॥५७८॥ तेषामित्यतिनिबंधा-न्मंत्री दाक्षिण्यनीरधिः । तन्नामानि क्रमेणैव, पत्रे स्वयमलीलिखत् ॥५७९॥ आनीयमाने कनको करे तैर्व्यवहारिभिः। सचिवार्धासनासीनो, भीमश्चित्ते व्यचीचरत् ॥५८०॥ अहो ममोपयुज्येर-श्चैत्यकर्मणि चेदिह। है द्रम्माः सप्तापि नीवीस्थाः, कृतार्थः स्यामहं तदा ॥५८१॥ मंदाक्षमंदस्तद्वक्तु-मक्षमः सोऽतिदाक्ष्यतः। विज्ञाय मंत्रिणाऽभाणि, ब्रूहि त्वं किं विवक्षसि ॥५८२ ॥ स प्राप्तैश्वर्यवत् प्रीतो, निःशंकं तमवोचत । गृह्यतां चैत्यकृत्येऽस्मिन्, ममापि द्रम्मसप्तकम् ॥५८३॥ चित्ते चमत्कृतो मंत्री, तमूचे देहि तद् द्रुतम् । पूर्णा चैत्योद्दिधीर्षा मे, स्वां नीवीं त्वमदा यदि ॥ ५८४ ॥ तेन रोमांचितांगेन, दत्ते तस्मिन् स्वकोशवत् । तन्नाम सर्वनामादौ, पत्रे श्रीवाग्भटोऽलिखत् ॥ ५८५॥ तद् दृष्ट्वांजनवत् कृष्ण-मुखाञ् श्राद्धान् महर्द्धिकान् । मंत्री स्माह कुतो यूय-मेवं विच्छायतामिताः॥५८६॥ ददतो |ऽपि बहुद्रव्यं, समा नैवास्य सर्वथा। शतांशमपि नादिद्, यन्नीव्यास्तामदादयम् ॥५८७॥ अपत्रपिष्णवो वाचा, तया तेऽधो है व्यलोकयन् । मन्यते स्माऽतिधन्यं स्वं, स भीमः सुस्तुतेस्ततः॥५८८॥ अथ पंचशी द्रम्मान, पट्टवस्त्रत्रयं नवम् । अमात्यो बहुमानेन, तस्मै दातुं प्रचक्रमे ॥५८९॥ भीमोऽभ्यधादहं पुण्यं, महन्नैतावता व्यये । कोटिं काणकपर्दैन, का पर्गमयत्यहो॥५९०॥ ततोऽनुज्ञाप्य मंत्रींद्र, स ययौ मंदिरं निजम् । पिशाच्या इव पत्नीतो, बिभ्यत् सर्वधनार्पणात् ॥ ५९१॥ तदा स्त्रियाऽन्ययेवोच्चैः, स्निग्धैाक्यैः स तोषितः । विमृष्टवानहो चित्रं, यदद्येयं प्रियंवदा ॥५९२॥ १ लजालुः. २ उद्धर्तुमिच्छा. ३ यूयमितिशेषः. ४ यस्मात्. ५ नीबीम्. ६ खभावतो लज्जाशीलाः-सज्जालवः. ACCESCRECADALANGUALLECCX कु.पा.व.३१
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy