SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ +SALA कुमार सग पालच० ॥१७१॥ CAR तत् फलं विद्धि, विषयाख्यमहीरुहः ॥ ३१७ ॥ विषवद् विषयांस्तस्मात्, त्यक्त्वा नरकलग्नकान् । पेपीयस्व परब्रह्मामृतं निवृतिमन्दिरम् ॥ ३१८ ॥ विलक्षाऽथावदद् देवी, धिक् त्वां क्लीवशिरोमणिम् । निराकरोषि यत् त्वं मा-मीदृशीं स्नेहलाशयाम् ॥३१९॥ स्वप्नेऽपि खलु या मत्त्य-रनीषल्लभदर्शना ।साऽर्थये स्वयमेव त्वां, किमद्यापि समीहसे? ॥३२०॥ पुनस्तां विक्रमः प्रोचे, भद्रे! त्वं भद्रमभ्यधाः । परमस्ति परस्त्रीणा-माजीवं मम वर्जनम् ॥ ३२१॥ वर्जयित्वा निजान दारान् , परनारीः सुरीरपि । प्राणनाशेऽपि नाऽऽसेवे, स्वव्रतभ्रंशभीलुकः॥ ३२२ ॥ किञ्च कः काचखंडाय, माणिक्यं परिचूर्णयेत् ? । धत्तूरतरवे को वा, कल्पपादपमुत्खनेत् ? ॥३२३॥ लोहकीलाप्तये देव-मन्दिरं को विदारयेत् । क्षणसौख्याय को मुंचे-च्छीलं संसारतारणम् ॥३२४॥ युग्मम् ॥ रेरे मूढ! वृषस्यंती, त्वं मां कामयसे न चेत् । तहि तेऽहं लुनाम्यद्य, शीर्ष खड्नेन नालवत् ॥ ३२५ ॥ सा ब्रुवाणेति गीर्वाणी, राक्षसीव भयंकरा । खड्गमुद्र्य भूजानि-शिरच्छेत्तुमधावत ॥ ३२६ ॥ प्राणव्ययेन स्वं शीलं, पाल्यमित्यात्तनिश्चयः । नमस्कारान् स्मरन् भूप-च्छित्त्यै शीर्षमनीनमत् ॥ ३२७ ॥ सोऽधाकृतशिराः सत्त्वो-द्रेककंटॅकितांगकः । यावन्निशाततद्घात-पातं काक्षेण वीक्षते ॥ ३२८ ॥ अहो शीलमहोशील-मित्युच्चैः स्तवती मुदा। तावत् तां दृष्टवान् देवी, वर्पती कुसुमोत्करम् ॥३२९॥ युग्मम् ॥क सोऽस्या घातसंरंभः, पुष्पवृष्टिरियं क्व च । चित्रीयमाणमित्यन्तः, सा विक्रममवोचत ॥ ३३०॥ अद्येशानसुरेशानः, समासीनः १ पुनः पुनः पिब. २ 'अश्वक्षीरे'त्यादि सूत्रे "अश्ववृषयोमथुनेच्छायाम्” इति वार्तिकेन क्यचि असुगागमे च मैथुनार्थ वृष(बलीबई)मिच्छति-वृषस्यति गौः अत्र तु अश्वषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छेवार्थों प्रायः, शतृप्रत्यये, 'वृषस्यंती तु कामुकी' इतिकोशप्रमाणात, ३ उत्पाव्य. ४ रोमांचितशरीरः. ५ तीक्ष्ण.. १७१॥ -ॐॐ
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy