SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ROCHORECASE नूनं, पुरेऽनर्थ पुनस्तव ॥७१६॥ स्मित्वाऽपृच्छन्नपो मित्र!, व्यडंब्येतत्सुता किमु ?, । स प्रोचे स्याद् यथा व्यक्ता, कला है नास्या व्ययोऽपि च ॥७१७॥ खिन्ना वेश्याऽवदद् गल्ल-झल्लरीवादनैरलम् । कला सर्वाऽपि ते ज्ञाता, सजायाऽऽशु सुतां। मम ॥ ७१८ ॥ मंत्रिपुत्रोऽभ्यधाद् दुष्टे ?, कलेयं कियती मम । यावत् त्वां रासभीकृत्य, पुरविष्ठां न चारये ॥ ७१९॥ नो चेदर्पय तद् रत्नं, मम रे पश्यतोहरे ! । तच्छ्रुत्वाऽप्रश्नयद भूपः, कि रत्नं मित्र ! कथ्यताम् ॥ ७२०॥ सोऽवद-16 न्मार्गमध्येऽभू-मज्जनादिविधिर्यतः । तद्र रत्नमनया जहे, पापिन्या मम जीववत् ॥७२१॥ वीरांगदोऽभ्यधात् क्रोधाद्, रे त्वयाऽकारि गीरियम् । “ग्रामोऽपि ज्वाल्यते स्वेन, व्याहारोऽपि विधीयते" ॥७२२॥ आनीयतां मणिस्तूर्ण, संप्रत्येव न चेदितः । निर्लाव्य नक्रश्रवणं, पुरान्निर्वासयिष्यसे ॥ ७२३ ॥ साऽथ दीना समानीय, कोद्याद रत्नं समर्प्य च । सुमित्रं | क्षमयामास, कलाढ्ये हि बलं किमु ? ॥ ७२४ ॥ गोष्ठी करिष्यते पश्चा-देतत्पुन्यनुकंप्यताम् । इत्युक्त्वा प्रहितो राज्ञा, | सुमित्रस्तदूगृहं गतः ॥ ७२५ ॥ कृष्णाञ्जनं निवेश्याक्ष्णोः, प्राग्रूपां स प्रियां व्यधात् । साऽपि विज्ञाय तद् गाढं, स्वसवित्रीमतर्जयत् ॥ ७२६ ॥ रतिसेनां समानीय, स मानी निजवेश्मनि । स्त्रीषु मुख्यत्वमातेने, सतीत्वस्य फलं ह्यदः॥७२७॥ महामात्यपदं दत्त्वा, सुमित्राय बलान्नपः। अदीदृशत् फलं प्रेम्णः, सन्मैत्री हि किमुच्यते ॥७२८॥ वीरांगदेन पृष्टोऽथ, १ वेश्याया-रतिसेनायाः, २ नाशः. ३ कुहिनी. ४ प्रश्नं करोतीति प्रश्नयति स्मेत्यर्थः. ५ आवयोरिति शेषः. ६ रनात्. ७ वाणी-लोकोक्तिः, ८ खयम्.। |९ उक्तिः-ग्रामो ज्वलति प्रामो ज्वलतीति कथन-धुम्बारव इत्यर्थः १० त्वया इतिशेषः. ११ मया इतिशेषः.१२ आवाभ्यामिति शेषः. १३ त्वया इतिशेषः. -CONSCLoC
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy