SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ १६४ ॥ कं चत्कटाक्षच्छटा- पाशैर्वैरि कुलं नियम्य सकलं, मुंचे यथा ते पुरः ॥ १२२ ॥ ( शार्दूलविक्रीडितम् ) सुभटानां निभा त्योच्चै - रित्याद्यारंभ पटुम् । जितकाशीव मोहेंद्र:, प्रधनावनिमानशे ॥ १२३ ॥ तावद् दूतोऽपि सज्ज्ञानादर्शोऽभ्येत्य निजं प्रभुम् । द्विषामामूलचूलं तं वृत्तांतं सर्वमूचिवान् ॥ १२४ ॥ तन्निशम्यानिशं शांता, अपि ते प्रशमादयः । वैरेंप्रबोधदुर्धर्ष - प्रकर्षाः प्रभुमुचिरे ॥ १२५ ॥ अहो दृष्ट्वाऽतिशांतान् नैः, पॅरेडमी प्रजगल्भिरे । दीपे मंदायमाने हि, स्फुरंति तिमिरोर्मयः ॥ १२६ ॥ कोऽस्ति मोहो वराकोऽयं ?, तस्य पुत्रा भटाश्च के ? । दलयामोsधुनैवैतान्, कणवत् | स्वामिशासनात् ॥ १२७ ॥ अस्माकं क्रामतां शत्रून्, समुद्राणां बलोर्मिभिः । वेलायते तवाज्ञैव, दैवेनापि दुराक्रमा ॥ १२८ ॥ भवतु ज्ञास्यते सर्वं, रणसीनीत्युदीरयन् । धर्मेंद्रो गूर्जरेंद्रश्च द्वंद्वार्थमुदतिष्ठताम् ॥ १२९ ॥ विधाय धर्मनाथं तं ससैन्यं पृष्ठरक्षिणम् । अलंचकार चौलुक्यः, क्षेत्रं द्विषदधिष्ठितम् ॥ १३०॥ दृष्ट्वा च मोहं दर्पिष्ठं, नृपोऽवोचत् समेहि भोः । आवामेव रणक्रीडां तन्वहे संतु सैनिकाः ॥ १३१ ॥ ' वपुष्मदिव सत्त्वं' तं दृष्ट्वा चौलुक्यमग्रतः । धूमायमानक्रोधाग्निः, स्माह मोहमहीपतिः ॥ १३२ ॥ रे पुंस्कीट ! समंततस्त्रिभुवनीमाक्रम्य तैर्विक्रमैः शक्राद्या अपि चक्रिरे किल | मया येन स्वदासा इव । प्रत्यग्रस्फुरदुग्रविग्रहधिया मोहस्य तस्याग्रत-स्तिष्ठन् धार्श्ववंशेन सांप्रतमसि त्वं कोऽपि १ मार्येद्रजालसंग्राम-क्रोधोदूभ्रान्तादिचेष्टितैः (उद्धान्तं - बाहुम् उद्यम्य खगभ्रामणम् ) । संयुक्ता पणबंधाये - रुद्भटाऽऽरभटी मता ॥ १ ॥ ( उद्भटा-प्रवर इत्यर्थः ) इति एवंरूपां रचनाम्. २ जितेन जयेन काशते इति जितकाशी ३ प्राप. ४ वैरजाप्रत्या पराभवितुमशक्यः प्रकर्षः - उत्कर्षो येषां ते. ५ अस्मान. ६ शत्रवः, ७ महतां प्रकटयंति पृष्ठतां कुर्वन्ति ८ अतिगच्छताम् ९ तीरायते वीर इव आचरति. १० नूतन० ११ निर्लज्जतावशेन. . ॥ १६४ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy