SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ कहिचित् ॥ ४९३ ॥ ततस्तन्नेत्रयोस्थित् , सुमित्रः कृष्णमञ्जनम् । करभ्यावप्यभूतां ते, देवकांते इव स्त्रियौ ॥ ४९४ ॥ वेगादुत्तीर्य पर्यका-दाश्चर्यमधिरुह्य च । उपावीविशतां तत्र, तं नत्वा विनयेन ते ॥ ४९५॥ पृच्छति स्म सुमित्रस्ते, प्रशस्ते ! तथ्यमुच्यताम् । कुतः शून्यं पुरं? के च, युवां? करभिके च किम् ? ॥४९६॥ तमाचष्ट तयोर्येष्ठा, गिरा माधुर्यधुर्यया । हेपयंतीव वीणाया, वेणोरपि च निक्कैणम् ॥ ४९७ ॥ उत्तरस्यां प्रशस्यश्री-सद्म पद्मवदन्वहम् । सुभद्रपुरमित्यस्ति, पुरं भद्रंकरं सताम् ॥ ४९८ ॥ स्वतातहिमवद्भांति, बिभ्राणेव सुरापगा। उन्नतं सेवते यस्य, शालमालंब्य सन्निधिम् ॥ ४९९ ॥ गंगादित्य इति श्रेष्ठी, तत्रास्त्यादित्यसद्युतिः। सच्चक्राणां मुदं दत्ते, यः पद्मोल्लासलालसः॥५०॥ आकालिकीव लोलाऽपि, कमला यस्य वेश्मनि । स्थेयसी प्रेयसीवासीत्, पुण्येन कृतकार्मणा ॥ ५.१॥ वसुधारेव विश्वस्य, परमानंददायिनी । तत्प्रिया वसुधाराऽऽस्ते, रूपाद् रतिरिवापरा ॥ ५०२॥ तयोर्निरुपमप्रेम्णोः , पुण्यनैपुण्ययोगतः। गाईस्थ्यद्रोः फलानीव, बभूवुनंदना घनाः॥ ५०३ ॥ तौ दंपती कदाऽप्येवं, दध्यतु? सुता घनाः । दुहितैकाऽपि नास्त्येषां, या स्यान्मंगलकारिणी ॥५०४॥ लोकस्याहो स्थितिः काऽपि, पुत्री पुत्री समीहते ॥ पुत्रीवानपि पुत्रं च, यद्वा जगदसत्मि| यम् ॥ ५०५॥ उपास्यत ततस्ताभ्यां, तदर्थ गोत्रदेवता । तद्वरं मुदिताऽदत्त, तुष्टा 'कामदुघेव' सा ॥५०६॥ तत्प्रभावात् तयोः पुत्र्यौ, बभूवतुरुभे शुभे । आद्या जया द्वितीया च, विजया विनयाऽऽस्पदम्॥५०७॥बहुपुत्रानुजातत्वाद्, भाग्यसौभाग्यतोऽपि च ।मातापित्रोः सँगर्भाणा-मप्यभूतामिमे प्रिये॥५०८॥क्रमात् कलासु सर्वासु, शारदावद् विशारदे । श्रियाऽ१ असु क्षेपणे-लुबिरूपम्. २ ध्वनिम्. ३ पद्मा-लक्ष्मीः पक्षे पञ-कमलम्. ४ विद्युदिव. ५ आवयोः.६ पुत्रवान्, ७ अविद्यमानवस्तुप्रियम्. “ भ्रातृणाम्. ९ शोभया. ५०४॥ लोकत्तागोत्रदेवता । तर CREASk नयाऽऽस्पदम
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy