SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ESSAGARLS माप्तिः, कां ददे गुरुदक्षिणाम् ? ॥५७॥ महाऋषिस्तमाचष्ट, निःसंग दर्शनं हि नः । अतो ब्राह्मणवन्नव, स्वीकुर्वे दक्षिणामहम् ॥ ५८॥ कुर्वे तथाऽपि कां भक्ति-मिति जल्पंतमोढरम् । आदिदेश गुरुस्तर्हि, चैत्यं चारु विधापय ॥ ५९॥ ततः स सुकृती श्रीम-द्वीरचैत्यमचीकरत् । व्योमगंगायितोद्दाम-पताकास्थगितांबरम् ॥ ६०॥ हस्तेन श्रीयशोभद्रसुरेरीकृतांहसा । तत् प्रतिष्ठापयामास, वितत्य च महामहम् ॥ ६१॥ प्रतिष्ठासुरपि स्थानान्तरं तत्रैव सूरिराट् । ओढराभ्यर्थितोऽत्यर्थ, वर्षा रात्रमवास्थित ॥ ६२॥ तदा मेघश्च सूरिश्च, गर्जन्तौ मधुरध्वनि । क्षेत्रेषु भूरिभाग्यानां, पुण्यांकुरान वितेनतुः॥ ६३ ॥ गुरौ घने च धारालं, सद्धर्मामृतमुज्झति । अंतर्बहिश्च पंकौघं, क्षालयंति स्म केचन॥६४॥ प्राप्तेपर्युषणापर्व-ण्योढरेण सहार्चयत् । जयताको जिनं पंच-वराटकमणीवकैः॥६५॥ उपोष्य तद्दिने धर्मकर्मकर्मठैमानसः। प्रतिलाभ्य च भत्त्याऽन्नं, मुनीन् सोऽपारयत् ततः॥६६॥ ओढरः स विपद्यांते, बभूवोदयनाह्वयः। मंत्रिराजः पुरोपात्त-पुण्यप्रारंभारभासुरः॥ ६७॥ कालधर्ममुपागत्य, जयताकः स जातवान् । कुमारपालनामा त्वं, राजन् ! गूर्जरनायकः॥६८॥ यशोभद्रप्रभुरपि, प्रमीतः स्फीतपुण्यतः। हेमचंद्राभिधानोऽहं, बभूवांस्तावको गुरुः॥६९॥ प्राग्वैरात् सार्थवाहस्य, जीवः सिद्धमहीपतिः। जिघांसोमास कामं त्वां, वैरं न हि चिरंतनम् ॥७० ॥ अमात्योदयनोऽहं च, प्राग्भवस्नेहमोहितौ । त्वयि स्निग्धतमावास्व, स्नेहोऽपि हि भवानुगः ॥ ७१ ॥ दिनानि कतिचित् पूर्व, यच्चौर्यादिर १ मत-साधुधर्मः. २ विस्तार्य. ३ प्रस्थातुमिच्छुरपि. ४ यथास्यात्तथा. ५ निम्, प्र. ६ शरीरेषु. ७ मणीवकैः-पुष्पैः. ८ कुशल०. ९ समूह ०. १० दत्तसूरे:शिष्यादन्योऽयमाचार्यः यशोभद्रः. ११ मृतः, १२ हेतुमियेष. १३ जीर्ण न भवति. १४ अस्धातोः लङ्. G*XXIGOGOSTEGGE
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy