SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ PRECARROGRESEARCALCRec दात् ॥ ४६७ ॥ तदा वैतालिकाः पेठु-जगुर्गान्धर्वकोविदाः । नर्तक्यो ननृतुर्जज्ञे, हर्षेणेव महो महान् ॥ ४६८ ॥ रेणुर्मगलतूर्याणि, ज्ञापयंतीव दिक्पतीन् । पंचमो लोकपालोऽयं, नवः प्रादुरभूदिति ॥ ४६९ ॥ रंजिताः कुंकुमांभोभिः, पुरमागभुवो बभुः । प्राप्य कांतं नवं कांतं, व्यक्तरागा इवाभितः॥४७०॥ विकीर्णा राजमार्गेषु, रेजिरे कुसुमोत्कराः। हासा इव | महीदेव्या, नवीनं स्वपतिं प्रति ॥४७१॥ पुरमप्यस्फुरत्तस्य, राज्ये राज्यदिवाभितः । प्रत्यर्ट्स मंजुमांजिष्टे-पताकाकोटिकूटतः ॥ ४७२ ॥ उल्लासयन सुहृत्पद्मान् , हरन् द्विट्कैरवश्रियम् । आश्चर्यकारणं कस्य, स राजाँ न व्यजंभत ॥ ४७३ ॥ ततः। कुमारपालोऽदा-त्फलवत् प्रीतिवल्लरेः । स्वयं भोपलदेपल्यै, पट्टराज्ञीपदं मुदा ॥ ४७४ ॥ दौस्थ्योपकृतितः कृत्वो-दयनं 8 मंत्रिपुंगवम् । अमात्यं तत्सुतं चक्रे, वाग्भट स प्रभोद्भटम् ॥ ४७५ ॥ अन्येऽपि ज्ञातिमान्या ये, स्वकीया गौरवोचिताः। तान्नियुक्तान् व्यधाद् भूपो-ऽभ्युदयस्य फलं ह्यदः॥ ४७६ ॥ पुरजनपदग्रामत्राणं भटनजसंग्रहः, कुनयदलनं नीतेवृद्धि-| स्तुलार्थमितिस्थितिः । व्रतिषु समता चैत्येष्वर्चा सतामतिगौरवं, प्रशमनविधि नव्ये राज्ये व्यधादिति स प्रभुः॥ ४७७ ॥ अथाग्रे नृपतेः प्रेक्ष्य, स्फुरतः सचिवानवान् । चुकुपुः प्रथमेऽमात्या, जाति जातिरसासहिः॥४७८॥ मिथस्ते मंत्रयामासुनीतिः काऽप्यस्य भूपतेः। हित्वा यद्राज्यधुर्यान्नः, पुरश्चके नवानसौ ॥४७९॥ यदा किं वेत्त्यसौ राज्य-सूत्रं जाल्मैकशेखरः। क्षीरनीरविवेके हि, बकोटो न पटुः स्फुरम् ॥ ४८० ॥ अथ स्वाम्यनुमानेन, भृत्यवर्गो विवेल्गति । यन्मूर्खान सचि १ नवीनः-अपूर्वः. २ मनोहरम्. ३ पतिम्. ४ रज्यतू-प्र. ५ रक्तवर्णा. ६ समूहात. . चंद्रपक्षे-वैपरीयादाश्चर्यकारणम्. ८ (विधिर्नव्ये.) ९ राज्य-व्यवस्थाम्. १.क्रूरैकशेखरः. ११ खाम्यनुसारेण. १२ऽपि, प्र. HOCACHORRORGHE कु.पा.च.११
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy