SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ब्रह्मांडभांडनिर्भेदि-ध्वानो घन इवासितः ॥ ६३२॥ ऊर्द्धवर्धिष्णुमूर्धाऽभ्र-मुच्चमप्युच्चयन्निव । भूरिभारामपि क्षोणी, पद्भरैर्भारयन्निव ॥ ६३३ ॥ अतिरौद्रतया मृत्यु-मपि संत्रासयन्निव । रोषद्विगुणवेगाब्यः, पृष्ठे प्राप स कौणपः ॥६३४॥ चतुर्भिः कलापकम् ॥ कुर्वन्निव जगच्छब्द-मयं किलकिलारवैः। अमात्यपुत्रमाचष्ट, सोऽथ दुष्टशिरोमणिः॥ ६३५ ॥ रे पार्टच्चरकोटीर!, सामान्यं साहसं न ते । मृत्योरिव मम स्थानं, यः क्रांत्वाऽहरत स्त्रियौ ॥ ६३६ ॥ सुभीमो हृतवान् यः प्राग , मत्पत्न्यौ स यमातिथिः । सकुटुंबो मया चक्रे ऽधुना त्वं च करिष्यसे ॥ ६३७ ॥ मां विराध्य कियत्कालं, जिजीविषसि रे जड ! । मृगारातिं पराभूय, किं जीवति मृगश्चिरम् ॥ ६३८॥ ददृश्वान् यदि मां न त्वं, तर्हि किं नापि शुश्रुवान् । राक्षसोऽहं जगजग्g, कृतांतस्याग्रजोऽस्मि रे ॥ ६३९ ॥ एकग्रासं करोमि त्वां, शरण्येन सहामुना । विब्रुव| निति कीनाश-स्तौ द्वौ जग्धुमधावत ॥ ६४०॥ पंचभिः कुलकम् ॥ धीरयित्वा कुमारं दाग , भयात हुंकृतैस्त्रिभिः । मंत्राक्षरैरिवामोधैः, सिद्धः स्तंभयति स्म तेम् ॥ ६४१॥ नाराचैरिव तीक्ष्णा-हुंकारैस्तैः स कौणपः । कीलिताखिलकायोऽभूत् , काष्ठस्तंभ इव स्थिरः॥६४२॥ सोऽथ व्यथाऽऽतुरोऽवोचत , सिद्ध ! स्तंभाद विमुंच माम् । जातं सत्यमिदं 'संति, रक्षसामपि भीषकाः ॥ ६४३ ॥ सिद्धोऽभ्यधाद् विमुंचास्मिन् , वैरं त्वं चेन्मुमुक्षसे । आचचक्षेर्नृचक्षास्तं, मत्प्रिये तर्हि दापय ॥ ६४४ ॥ सिद्धः प्रोचे व ते कांते, त्वयाऽपि प्राच्यजन्मनि । श्रेष्ठिनं वंचयित्वैव, गृहीते तस्य नंदने ॥ ६४५ ॥ १ मेघः. २ चौरशिरोमणे 1. ३ रक्षकेण. ४ धीरे करोति धीरयति, धीरयित्वा-धैर्ययुक्तं कृत्वा. ५ राक्षसम्. ६ सर्वलोहमयबाणैः, ७ मोक्तु मिच्छसि. 1८ नन् चष्टे-पश्यति भक्ष्यत्वेनेति नृचक्षाः-राक्षसः. मपि भीषकाः ॥ ६४३ ॥ सिद्धोध व्यथाऽऽतुरोऽवोचत् , सिमकारेस्तैः स कौणपः । कीलिताखामा
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy